________________
षाड्गुण्य समुद्देशः ।
३२९
टीका- - न केवलं शत्रोः संश्रयो न कर्तव्योऽपि तु क्रियते कस्मिंश्चिद्विषये आयत्यां परिणामे शत्रुसंश्रयोऽपि श्रेयान् कल्याणप्रदो भवति । तथा च हारीत:
परिणामं शुभं ज्ञात्वा शत्रुजः संश्रयोऽपि च । कस्मिश्चिद्विषये कार्यः सततं न कथंचन ॥ १ ॥ अथ राज्ञः कृत्येषु कालातिक्रमस्य स्वरूपमाहनिधानादिव न राजकार्येषु कालनियमोऽस्ति ॥ ६० ॥
टीका — यथा निधाने लब्धे न कालनियमः कालातिक्रमो न क्रियते तत्क्षणादेव गृहयते तथा राजकार्येषु कालातिक्रमो न शुभावहः तत्क्षणादेव राजकार्याणि क्रियन्ते । तथा च गौतमः
निधानदर्शने यद्वत्कालक्षेपो न कार्यते ।
राजकृत्येषु सर्वेषु तथा कार्यः सुसेवकैः ॥ १ ॥
अथ राजकार्याणां स्वरूपमाहमेघवदुत्थानं राजकार्याणामन्यत्र च शत्रोः सन्धिविग्रहाभ्याम् ।। ६१ ।।
apple
टीका - राजकार्याणां राजकृत्यानां यदुत्थानं संभूतिः । तत्किविशिष्टं ? मेघवदुत्थानं यथा मेघस्योत्थानमचिन्तितमपि संजायते तथा राजकृत्यानामपि तस्माद्विलम्बो न कार्यः, अन्यत्र शत्रोः सन्धिविग्रहाभ्यां शत्रुविषये यत्कृत्यं तत्र यः समादेशः सन्धिविग्रहविषये स तत्क्षणादेव न कार्यः चिन्तनीय इति । तथा च गुरु:
राजकृत्यमचित्यं यदकस्मादेव जायते ।
मेघवत् तत्क्षणात्कार्य मुक्त्वैकं सन्धिविग्रहं ॥ १ ॥
अथ भूयोऽपि विजिगीषुणा यत्कर्तव्यं तदाह
द्वैधीभावं गच्छेद् यदन्योवश्यमात्मना सहोत्सहते ।। ६२ ।।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
―――――――――――――