________________
३३०
नातिवाक्यामृते
wwwmnirami
टीका-तद्वैधीभावं गच्छेत् सन्धिवाक्यैर्विग्रहवाक्यैश्च शत्रुणा सह । यदि किं स्यात् ? यद्यन्यस्तस्मात्परो यः शत्रोः शत्रुरुत्सहते उत्साहं करोति युद्धापकत्वं प्रविशति । केन? आत्मना सह, शत्रुणा सह सन्धिविग्रहवचनैवक्तव्यमिति । तथा च गर्ग:----
यद्यसौ सन्धिमादातुं युद्धाय कुरुते क्षणं ।
निश्चयेन तदा तेन सह सन्धिस्तथा रणम् ॥ १॥ अथ द्वैधीभावं ( गते ) सीमाधिपे तच्छत्रौ युद्धपरे सीमाधिपस्य यद्भवति तदाह
बलद्वयमध्यस्थितः शत्रुरुभयसिंहमध्यस्थितः करीव भवति सुखसाध्यः ॥ ६३ ॥
टीका-यवाभ्यां विजिगीषुभ्यां मध्यस्थितः शत्रुर्भवति तदा सुखसाध्यः कष्टेन विना सिद्धयति । क इव ? करीव गज इव । किंविशिष्टः ? मध्यगतः । काभ्यां ? सिंहाभ्यां । तथा च शुक्रः
सिंहयोर्मध्ये यो हस्ती सुखसाध्यो यथा भवेत् ।
तथा सीमाधिपोऽन्येन विगृहीतो वशो भवेत् ॥१॥ अथ भूम्यार्थिनः सीमाधिपस्य यदेवं भवति ( तदाह-) भूम्यर्थिनं भूफलप्रदानेन संदध्यात् ॥ ६४ ॥ टीका-यदा भूम्यर्थी बलवान् सीमाधीपो भवति तदाह-तस्मै भूमिफलं यद्भवति यदुत्पद्यते तद्वित्तं देयं न भूमियेति नीतिः । तथा च गुरु:
सीमाधिपो बलोपेतो यदा भूमि प्रयाचते।
तदा तस्मै फलं देयं भूमेर्नैव धरां निजाम् ॥१॥ अथ भूमिफलेन दत्तेन यद्भवति तदाहभूफलदानमनित्यं परेषु भूमिर्गता गतैव ।। ६५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org