SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ पाडण्यसमुद्देशः । ३३१ टीका-यद्भफलदानं, तत्किविशिष्टं ? अनित्यं विनश्वरं, पुत्रपौत्रकं परस्य न भवति । यत्पुनर्भूमिदानं तद्गतमेव भूयो न लभ्यते तस्मात्पितृपैतामहिका भूमिः परस्मै न दीयत इति । तथा च गुरु: भूमिपस्य न दातव्या निजा भूमिवलीयसः। स्तोकापि वा भयं चेत्स्यात्तस्माद्देयं च तत्फलम् ॥१॥ अथ येन कारणेन परस्य न दीयते तदाहअवज्ञयापि भूमावारोपितस्तरुर्भवति बद्धतलः ॥६६॥ टीका-आरोपितः स्थापितस्तवृक्षो बद्धमूलो भवति जडाभिः प्रसरति किं पुनर्न महीपतिः पुत्रपौत्रैः प्रसरतीति । तथा च रैम्यः-- लीलयापि क्षितौ वृक्षः स्थापितो वृद्धिमाप्नुयात् । तस्या गुणेन नो भूपः कस्मादिह न वर्धते ॥ १॥ अथाल्पदेशाधिपोऽपि राजा भवति यथा सार्वभौमस्तदाह उपायोपपन्नविक्रमोऽनुरक्तप्रकृतिरल्पदेशोऽपि भूपतिर्भवति सार्वभौमः ॥ ६७ ॥ टीका-यो राजोपायोपपन्नविक्रमो भवति उपायाः सामादयस्तैरुपपन्नो युक्तो विक्रमः पराक्रमो भवति । तथा योऽनुरक्तप्रकृतिभर्वति प्रकृतिशब्देन राज्यपालादिका समीपर्वर्तिनः सेवकाः कथ्यन्ते तेऽनुरक्ता भक्ता यस्य स राजा स्वल्पदेशोऽपि चक्रवर्ती प्रजायते । अथ राज्ञो भूमिर्यथा भवति तत्स्वरूपमाहन हि कुलागता कस्यापि भूमिः किन्तु वीरभोग्या वसुन्धरा ॥ ६८॥ टीका-यस्य भूमिः कुलागता पितृपैतामहिका सा किं विक्रमर-. हितस्य भूपतेर्वशा भवति किन्तु वीरभोग्या वसुन्धरेति लोकोक्तिरेषा, परकीयापि भूमिर्वीरव्रतस्यात्मीया भवति । तथा च शुक्रः-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy