SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते कातराणां न वश्या स्याद्यद्यपि स्यात्क्रमागता । परकीयापि चात्मीया विक्रमो यस्य भूपतेः ॥ १ ॥ अथ भूपालानां सामादीनां नामानि लिख्यन्तेसामोपप्रदानभेददण्डा उपायाः ।। ६९ ।। टीका - गतार्थमेतत् । ३३२ - अथ साम्नो लक्षणमाह तत्र पंचविधं साम, गुणसंकीर्तनं सम्बन्धोपाख्यानं परोपकारदर्शनमायति प्रदर्शनमात्मोपनिबन्धनमिति ॥ ७० ॥ -- टीका- - प्रथमं गुणकीर्तनं तावत् परस्य गुणाः केवलाः कीर्त्यन्ते । द्वितीयं सम्बन्धोपाख्यानं येन प्रकारेण सम्बन्धः सन्धिर्भवति तं वदति । तृतीयं परोपकरणं । तयायतिप्रदर्शनं नित्यत्वदर्शनं चतुर्थं । तथात्मोपनिबन्धनं यत्रात्मोपनिबंधनं क्रियते तत्पंचमं साम । तथा च व्यासः - साम्ना यत्सिद्धिदं कृत्यं ततो नो विकृतिं व्रजेत् । सज्जनानां यथा चित्तं दुरुक्तैरपि कीर्तितः ॥ १ ॥ अथ परमनेन साम्नो माहात्म्यमाह साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति तत्किं पटोलेंन ॥ १ ॥ अथोपप्रदानस्वरूपमाह - यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयुज्यतामित्यात्मोपनिधानं ॥ ७१ ॥ टीका - आत्मशब्देनोपप्रदानमुच्यते यदात्मनो निधानमात्मद्रव्यस्य विनिवेदनं क्रियते विजिगीषुणा शत्रोस्तदुपप्रदानं एवं वदता यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयुज्यतामिति यः शत्रोः प्रोच्यते तद्बोधोपप्रदानं । अथान्यदपि उपप्रदानमाहबव्हर्थसंरक्षणायाल्पार्थप्रदानेन परप्रसादनमुपप्रदानं ॥ ७२ ॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy