________________
षामुण्यसमुद्देशः ।
३३३
टीका-यद्बलीयसा शत्रोर्बव्हर्थरक्षणाय स्वल्पार्थो दीयते परप्रसादनं. तच्च प्रोक्तमुपप्रदानं । तथा च शुक्रः
बव्हर्थः स्वल्पवित्तन यदा शत्रोः प्ररक्षते।
परप्रसादनं तत्र प्रोक्तं तच्च विचक्षणैः॥१॥ अथ भेदस्य स्वरूपमाह
योगतीक्ष्णगूढपुरुषोभयवेतनैः परबलस्य परस्परशंकाजननं निर्भर्त्सनं वा भेदः ॥ ७३ ॥
टीका----परयोगः सैन्यस्य नायकः क्रियते, तीक्ष्णं विषं तद्यत्र संजायते, तथा गूढपुरुषा अलक्षितपुरुषा यत्र संजायते। तथोभयवेतनैः पुरुषैः यत्र शत्रोश्चेष्टितं ज्ञात्वा परस्परमन्योन्यं बलस्य परस्य च शत्रोः शंकोत्पद्यते निर्भर्त्सनं क्रियते वा स भेदः । तथा च गुरु:
सैन्यं विषं तथा गुप्ताः पुरुषाः सेवकात्मकाः ।
तैश्च भेदः प्रकर्तव्यो मिथः सैन्यस्य भूपतेः ॥१॥ अथ दण्डस्य स्वरूपमाहवधः परिक्लेशोऽर्थहरणं च दण्डः ॥ ७४ ॥
टीका-यत्र शत्रोर्वधः क्रियते, परिक्लेशो वार्थहरणं वा क्रियते स दण्ड उच्यते । तथा च जैमिनिः--
वधस्तु क्रियते यत्र परिक्लेशोऽथवा रिपोः ।
अर्थस्य ग्रहणं भूरिदण्डः स परिकीर्तितः॥१॥ अथ शत्रोः सकाशात् समागतस्य पुरुषस्य विजिगीषुणा यत्कर्तव्यं तदाह--
शत्रोरागतं साधुःपरीक्ष्य कल्याणबुद्धिमनुगृह्णीयात् ।।७५॥
टीका- शत्रोः सकाशात् साधु राष्ट्र स्वागतं सुष्टु आगतं कल्याणबुद्धया सूक्ष्मबुद्धया परीक्ष्य बुद्धिपरीक्षणं कृत्वा तस्य ततोऽनुगृह्णीयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org