SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३४ नीतिवाक्यामृते तस्यानुग्रहणं कुर्यात् प्रसादं विदधीत नापरीक्षितस्य । तथा च भागुरिः शत्रोः सकाशतः प्राप्तं सेवार्थ शिष्टसम्मतं । परक्षिा तस्य कृत्वाथ प्रसादः क्रियते ततः॥१॥ अथ बाह्यसेवकागतकार्यद्वारेणारण्यौषधमाहात्म्यमाहकिमरण्यजमौषधं न भवति क्षेमाय ॥ ७६ ॥ टीका-आरण्यं यद्भेषजं भवत्यौषधं तत्कि न भवति क्षेमायारोग्याय। एवं परेषां सकाशादागतोऽपि क्षेमाय भवति । तथा च शुक्रः परोऽपि हितवान् बन्धुबन्धुरप्यहितपरः । अहितो देहजो व्याधिर्हितमारण्यमौषधं ॥१॥ अथ शत्रुसम्बन्धिना लोकेन गृहप्रविष्टेन यद्भवति तदाह ग्रहप्रविष्टकपोतः इव स्वल्पोऽपि शत्रुसम्बन्धी लोकस्तंत्रोद्वासयति ।। ७७ ॥ टीका--उद्वासयति स्फेटयति । किं तत् ? गृहसम्पत् । कोऽसौ ? लोकः। किंविशिष्टः ? शत्रुसम्बन्धी शत्रुपक्षस्थः। किंविशिष्टः ? स्वल्पोऽपि लघुरपि। क इव ? कपोत इव यथा कपोतो लघुरपि गृहे प्रविष्टो गृहं नाशयति तथा शत्रुपक्षज इति । तथा च वादरायणः शत्रुपक्षभवो लोकः स्तोकोऽपि गृहमाविशत् । यदा तदा समाधत्ते तगृहं च कपोतवत् ॥१॥ अथोत्तमलाभस्य स्वरूपमाहमित्रहिरण्यभूमिलाभानामुत्तरोत्तरलाभः श्रेयान् ।। ७८ ॥ टीका-~-श्रेयान् कल्याणप्रदो भवति। कोऽसौ ? लाभः प्राप्तिः । किंविशिष्टः ? उत्तरोत्तर उत्कृष्टादुत्कष्टतरः,केषां ? मित्रहिरण्यभूमिलाभानां मित्रलाभस्तावत्कल्याणप्रदो भवति तस्य सकाशात् हिरण्यलाभ उत्कृष्टस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy