________________
३३५
षागुण्यसमुद्देशः । स्मादपि भूमिलाभ उत्कृष्टतरस्तस्माद्विजिगीषुणाभूमिलाभः ( कार्यः)। तथा च गर्ग:--
उत्तमो मित्रलाभस्तु हेमलाभस्ततो वरः।
तस्माच्छ्रेष्ठतरं चैव भूमिलाभं समाश्रयेत् ॥ १॥ अथ यस्माद्भूलाभस्त्रयाणामेतेषां श्रेष्ठतरस्तदाहहिरण्यं भूमिलाभाद्भवति मित्रं च हिरण्यलाभादिति ॥७९॥ टीका-न तदम्ति धरापृष्टे यद्भूलाभान्न लभ्यतेऽन्यलाभान् परित्यज्य तस्माद्भलाभमाश्रयेत् । भूमिर्वा मित्रं वा हिरण्यबाह्येन भवतो द्वे अपि तस्माद्भूभुजा हिरण्यसंग्रहः कार्यः । तथा च शुक्रः ।
न भूमिर्न च मित्राणि काशनष्टस्य भूपतेः।। द्वितीयं तद्भवेत्सद्यो यदि कोशो भवेद्गृहे ॥१॥ अथ शत्रोमित्रत्वे वर्तमानस्य विजिगीषुणा यत्कर्तव्यं तदाहशत्रोमित्रत्वकारणं विमृश्य तथाचरेद्यथा न वञ्च्यते ॥८॥ टीका-विग्रहस्य पर्यालोच्य किं तत्कारणं किं वा शत्रोः ततो विमृश्य तथाचरेत् व्यवहरेत् यथा न वंचते वंचनां न प्राप्नोति । सहसा शत्रुणा सह मैत्र्यं न कुर्यात् । तथा च शुक्रः
पर्यालोचं विना कुर्याद्यो मैत्री रिपुणा सह ।
स वंचनामवाप्नोति तस्य पाश्र्वादसंशयः॥१॥ अथ यथा दुरपवादो भवति तदाह
गूढोपायेन सिद्धिकार्यस्यासंवित्तिकरणं सर्वांशंकां दुरपवादं च करोति ॥ ८१॥
टीका-गूढोपायेन प्रच्छन्नोपायेन सिद्धिकार्यस्य विजिगीषोः पुष्टिप्राप्तस्यासवित्तिकरणमुपचारवर्जनं शत्रोस्तच्छंकां जनयति कस्मादेवं मनः कृत्वा साम्प्रतं मया सहान्यथा वर्तो नूनं मम शत्रुणा सहास्य मित्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org