SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३३६ नीतिवाक्यामृते त्वमस्ति । तथा नैकान्तं संभावयति तस्य दुरपवादो जननिन्दा भवति यतोऽनेन भूभुजा एष वृद्धिं नीतः तदस्य भक्तिं न करोति कृतघ्नः । तथा च गुरु: वृद्धिं गच्छेद्यतः पाश्चात्तं प्रयत्नेन तोषयत् । अन्यथा जायते शंका रणगोपाद्धि गर्हणा ॥१॥ अथोभयवेतनानां यत्कार्य तदाहगृहीतपुत्रदानानुभयवेतनान् कुर्यात् ॥ ८२ ॥ . टीका-यान् राजा उभयवेतनान् करोति शत्रोः पार्श्वे प्रेषयति तेषां पुत्रदारसंग्रहं कुर्यात् ततस्ते प्रहेतव्या येन शत्रुचेष्टितं निवेदयन्ति । तथा च जैमिनि: गृहीतपुत्रदारांश्च कृत्वा चोभयवेतनान् । प्रेषयेद्वैरिणः स्थाने येन तच्चेष्टितं लभेत् ॥ १॥ अथ शत्रुविनाशं कृत्वा भूभुजा यत्कर्तव्यं तदाह शत्रुमपकृत्य भूदानेन तदायादानात्मनः सफलयेत् क्लेशयेद्वा ॥ ८३ ॥ टीका-शत्रु परमपकृत्य साधयित्वा पश्चाद्विजिगीषुणा किं कार्य तद्दायादं गोत्रिणं तद्भूदानेन सफलयेत् युक्तान् कुर्यात् । कथं ? आत्मनः यथा स्वकीयो भवति । तथा च नारदः साधयित्वा परं युद्धे तद्भूमिस्तस्य गोत्रिणः। दातव्यात्मवशो यः स्यान्नान्यस्य तु कथंचन ॥१॥ अथ ............... परविश्वासजनने सत्यं शपथः प्रतिभूः प्रधानपुरुषप्रतिगृहे वा हेतुः ॥ ८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy