SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ षाड्गुण्यसमुद्देशः । टीका- - परस्य शत्रोः विश्वासजनने को हेतुः किं कारणं येन स --- न चलति, सत्यं शपथस्तावत् तथा प्रतिभुवः प्रधानपुरुषप्रतिग्रहो वा । प्रतिग्रहशब्देन तस्याभीष्टजनग्रहणमुच्यते । तथा च गौतमः - शपथैः कोशपानेन महापुरुषवायतः । प्रतिभूरिष्टसंग्रहाद्वियोर्विश्वसतां व्रजेत् ॥ १॥ अथ भूभुजा यथा न यात्रा कर्तव्या तदाहसहस्त्रैकीयः पुरस्ताल्लाभः शतैकीयः पश्चात्कोप इति न यायात् ॥ ८५ ॥ टीका- राज्ञो यदि सहस्त्रकीयः सहस्रप्रमाणः पुरस्तादायो लाभो भवति, शतैकीयः शतप्रमाणः पश्चात्कोपो भवति तत्र न यायात् न यात्रां कुर्यात् । तथा च भृगुः- पुरस्ताद्भूरिलाभेऽपि पश्चात्कोपोऽल्पको यदि । तद्यात्रा नैव कर्तव्यास्तत्स्वल्पोऽप्यधिको भवेत् १ ॥ १ ॥ अथ स्वल्पेनापि पश्चात्कोपेन यथा न गम्यते तदाहसूचीमुखा ह्यनर्था भवन्त्यल्पेनापि सूचीमुखेन महान् दवरकः प्रविशति ॥ ८६ ॥ टीका — सूचीमुखशब्देन स्वल्पः पश्चात्कोपोऽभिधीयते । तस्मिन् स्थिते भवन्ति जायन्ते, के ते ? अनर्था आपदः प्रभूततराः । केन दृष्टान्तेन ? सूचीमुखदृष्टान्तेन सूचीशब्देन सीवनशस्त्रमुच्यते वस्त्राणां तया यदा वस्त्र मुखं कृतं भवति तदा तन्मार्गेण महानपि दवरक: सूत्र - मयः प्रविशति । एवं स्वल्पोऽपि पश्चात्कोपः स पश्चाद्गतस्य परदेशं गतस्य लघुरपि गुरुतां याति तस्मात्स्वल्पेनापि पश्चात्कोपेन न गन्तव्य - मिति । तथा च वादरायणः ३३७ ---- Jain Education International स्वल्पेनापि न गन्तव्यं पश्चात्कोपेन भूभुजा । यतः स्वल्पोऽपि तद्बाह्यः स वृद्धिं परमां व्रजेत् ॥ १ ॥ नीति०-२२ For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy