SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ यथा विजिगीषुणात्मलाभश्चिन्तनीयस्तथाह - न पुण्य पुरुषापचयः क्षयो हिरण्यस्य धान्यापचयो व्ययः शरीरस्यात्मनो लाभमिच्छेद्येन सामिषक्रव्याद इव न परैरवरुध्यते ।। ८७ ।। ३३८ — टीका- - तं लाभमिच्छेत् तस्य लाभस्य वाञ्छा कार्या येन लाभेन न स्यान्न भवेत् । कोऽसौ ? पुण्यपुरुषापचयः पुण्यपुरुषाः प्रधानपुरुषास्तेषामपचयो विनाशो येन लाभेन न भवति । तथा क्षयो हिरण्यस्य, हिरण्यं कोशस्तस्य क्षयो न भवति । तथा धान्यापचयोऽन्नक्षयः । तथा व्ययो नाशः, कस्य ? आत्मनः शरीरस्य । तथा सामिषक्रव्याद इव समांसविहंगम इव यथा पैरः पक्षिभिर्मासार्थिभिः तथान्यैः क्षितिपालैर्येन लाभेन गृहीतेन न रुध्यते तं लाभमिच्छेत् । तथा च शुक्रः : स्वतंत्रस्य क्षयो न स्यात्तथाचैवात्मनोऽपरः । येन लाभेन नान्यैश्च रुध्यते तं विचिन्तयेत् ॥ १ ॥ शक्तोऽपि यः परापराधान् क्षमते तस्य यद्भवति तदाहशक्तस्यापराधिषु या क्षमा सा तस्यात्मनस्तिरस्कारः ||८८ || टीका - यस्य राज्ञः शक्तस्य कृतापराधेषु क्षमा भवति स तस्य तिर - स्कारः परिभवं जनयति तस्माद्राज्ञा कृतापराधेषु क्षमा न कार्या । तथा च वादरायणः --- --- शक्तिमानपि यः कुर्यादपराधिषु च क्षमां । स पराभवमाप्नोति सर्वेषामपि वैरिणां ॥ १ ॥ अथ यो राजापराधिषु निग्रहं करोति तस्य यद्भवति तदाहअतिक्रम्यवर्तिषु निग्रहं कर्तुः सर्पादिव दृष्टप्रत्यवायः सर्वोऽपि बिभेति जनः ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy