SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ पागुण्यसमुद्देशः। ३३९ ___टीका-यो राजातिक्रन्यवर्तिष्वन्यायकारिषु निग्रहं करोति तस्माद्राज्ञः सर्पादिव दृष्टप्रत्यवायो दृष्टः प्रत्यवायो येन स तथा सर्वोऽपि जनो बिभेति न कश्चिदपराधं करोतीत्यर्थः । तथा च भागुरिः-- अपराधिषु यः कुर्यान्निग्रहं दारुणं नृपः। तस्माद्विभति सर्वोऽपि सर्पसंस्पर्शनादिव ॥१॥ अथ नीतिमता यत्कर्तव्यं तदाहअनायकां बहुनायकां वा सभां न प्रविशेत् ।। ९० ॥ टीका-गतार्थमेतत्अथ गणपुरश्चारिणः पुरुषस्य यद्भवति तदाह गणपुरश्चारिणः सिद्धे कार्ये स्वस्य न किंचिद्भवत्यसिद्धे पुन: ध्रुवमपवादः ॥ ९१ ।। टीका-गणो जनसमूहस्तस्य पुरश्चारी भवति अग्रेसरो भवति राजकुल सभा वा गच्छन्नहंकारं कृत्वाहमेव सर्व कार्यसिद्धिं करिष्यामीति [अ] पश्चाद्गच्छति ब्रूते तदर्थ तस्य येदि तावत्सिद्धिर्भवति तदात्मनः किंचित्फलं न भवति, असिद्धौ पुनमहानपवादो भवति, अनेन मूर्खण विरूपं जल्पतैतत् सर्व प्रयोजनं नाशं नीतमिति । तथा च नारद: बहूनामग्रगो भूत्वा यो ब्रूते न नतं परः। तस्य सिद्धौ नो लाभः स्यादसिद्धौ जनवाच्यता ॥१॥ . अथ राजसभाया दूषणमाहसा गोष्ठी न प्रस्तोतव्या यत्र परेषामपायः ॥ ९२॥ टीका-सा गोष्टी सभा न प्रस्तोतव्या न श्लाघनीया यत्र यस्यां परेषामागतानां कार्यार्थिनां पक्षपातेनापायो विनाशो भवति । तथा च जैमिनिः - सभायां पक्षपातेन कार्यार्थी यत्र हन्यते । ' न सा सभा भवेच्छस्या शिष्टैस्त्याज्या सुदूरतः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy