________________
३४०
नीतिवाक्यामृते
अथागतस्यार्थस्य यत्कर्तव्यं तदाह
गृहागतमर्थ केनापि कारणेननावधीरयेद्यदैवार्थागमस्तदैव सर्वातिथिनक्षत्रग्रहबलं ॥ ९३ ॥ __टीका- अर्थे समागते तिथिनक्षत्रग्रहबलं न चिन्तनीयं, अद्यसामान्या तिथिः, नक्षत्रं न शोभनं, ग्रहबलं मम नास्ति, एतन्न चिन्तनीयं । तत्क्षणादेव ग्राह्यं । कस्मात् ? यदैवार्थागमो भवति तदैव सा तिथिः शोभना, तदैव शोभनं नक्षत्रं तथा सर्वेषां ग्रहाणां बलं भवतीति । तथा च गर्गः
गृहागतस्य वित्तस्य दिनशुद्धिं न चिन्तयेत् ।
आगच्छति यदा वित्तं तदैव सुशुभं दिनं ॥१॥ अथार्थोपार्जनं यथा भवति तथाहगजेन गजबन्धनमिवार्थेनार्थोपार्जनम् ॥ ९४ ॥ टीका-यथा गजेन गजबन्धः क्रियते नान्यथा तथार्थविनियोगेनार्थप्राप्तिर्भवति । तथा च जैमिनि:
अर्था अर्थेषु बध्यन्ते गजैरिव महागजः।
गजा गर्विना न स्युरर्था अथैर्विना तथा ॥१॥ अथ दण्डपातस्य निर्णयमाह
न केवलाभ्यां बुद्धिपौरुषाभ्यां महतो जनस्य सम्भूयोत्थाने संघातविघातेन दण्डं प्रणयेच्छतमवध्यं सहस्रमदण्डयं न प्रणयेत् ॥ ९५॥
टीका-न प्रणयेत् न दद्यात् । कं? दण्डं । कस्य ? महतो जनस्योत्तमपुरुषसंघस्य । केन कृत्वा ? संघातविघातेन मेलापकदूषणेन । कस्मिन् महतो जनस्य दण्डं न प्रणयेत् ? संभूयोत्थाने एकचित्तमते परस्य नान्यजल्पाकं (१) । तर्हि किं कार्य भूभुजा ? शतमवध्यं यदि शतं पुरुषाणामेकवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org