________________
षागुण्यसमुद्देशः।
३४१
क्येन जल्पति तदवध्यं, अथ सहस्रं जल्पति तस्य दण्डो नास्तीति । तथा च शुक्रः
बुद्धिपौरुषगर्वेण दण्डयन महाजनं ।
एकानुगामिकं राजा यदा तु शत्रुपूर्वकम् ॥१॥ अथ भूमिलक्षणमाहसा राजन्वती भूमियस्यां नासुरवृत्ती राजा ॥ ९६ ॥ टीका-यस्यां भूमौ देशे न स्यात् न भवेत् असुरवृत्ती राक्षसवृत्ती राजा सा भूमी राजन्वतीत्यभिधीयते । तथा च गुरु:
यस्यां राजा सुवृत्तः स्यात्सौम्यवृत्तः सदैव हि।
सा भूमिः शोभते नित्यं सदा वृद्धिं च गच्छति ॥ १॥ अथासुरवृत्ते राज्ञः स्वरूपमाहपरप्रणेयो राजाऽपरीक्षितार्थमानप्राणहरोऽसुरवृत्तिः ॥ ९७॥
टीका-यो राजा परप्रणेयो भवति अन्यमतेन वर्तते स्वयं न 'पालोचं कृत्वा कृत्यानि करोति स परप्रणेयः तथापरीक्षितार्थमानप्राणहरो दण्डयलोकांना अपरीक्षितार्थमानेन प्राणान् हरति । एतदुक्तं भवति, दण्डस्यार्थमानं प्राणमानं न जानाति शतवित्तस्य परवचनैः सहस्रं याचते ततो यं गच्छमानस्य प्राणान् हरति सोऽसुरवृत्तिः कथ्यते । तथा च भागुरिः
परवाक्यैर्नृपो यत्र सद्वत्तां सुप्रपीडयेत् ।
प्रभूतेन तु दण्डेन सोऽसुरवृत्तिरुच्यते ॥ १॥ अथ परप्रणेयस्य राज्ञो लक्षणमाहपरकोपप्रसादानुवृत्तिः परप्रणेयः ।। ९८॥ टीका-यो राजा परवचनेन कोपं करोति प्रसादं करोति स परप्रणेयस्तस्माद्भभुजा परप्रणेयेन न भवितव्यं । तथा च राजगुरु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org