SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३४२ नीतिवाक्यामृते परप्रणेयो भूपालो न राज्यं कुरुते चिरं । पितृपैतामहं चेत्स्यात्कि पुनः परभूपजं ॥१॥ छन्दोनुवर्तनस्य स्वरूपमाह-- तत्स्वामिच्छन्दोनुवर्तन श्रयो यन्न भवत्यायत्यामहिताय ९९ टीका--भृत्येन स्वामिनस्तथाच्छन्दोनुवर्तनं कार्य तथा प्रियं वाच्यं यथा तच्छेयस्करं भवति । कस्यां ? आयत्यां परिणामे, अहिताय भवति तन्न वाच्यमिति । तथा च गर्ग: मंत्रिभिस्तत्प्रियं वाच्यं प्रभोः श्रेयस्करं च यत् । आयत्यां कष्टदं यच्च कार्य तन्न कदाचन ॥१॥ अथ भूमुजा यथार्थो ग्राह्यः प्रजानां तत्स्वरूपमाहनिरनुबन्धमर्थानुबंध चार्थमनुगृह्णीयात् ॥ १०० ॥ टीका-गृहीतव्यं । कं ? अर्थ । केन ? राज्ञा । काभ्यः ? प्रजाभ्यः सकाशात् । कथं ? निरनुबन्धं यथा भवति यथा जनस्यानुबन्धः पीडा न भवति । तथार्थानुबन्धोऽर्थक्षतिर्यथा न स्यात् तथा ग्राहयं नृपंधर्नम् । अथार्थागमस्य दूषणमाहनासावर्थो धनाय यत्रायत्यां महानर्थानुबन्धः ॥ १०१॥ टीका-सोऽर्थों धनाय धननिमित्तं स्थिरो न भवति तस्यार्थस्य गृहागतस्यायत्यां परिणामे महत्तरोऽर्थानुबन्धो भवति गृहस्थितमपि नाशं याति चौर्यादिभिः । कुत्सितकर्मप्रभृतिभिः योऽर्थो गृहमानीयते तदर्थं राज्ञा गृहस्थितमपरमपि वित्तं गृहयते । तथा चात्रिः__अन्यायोपार्जितं वित्तं यो गृहं समुपानयेत् । गृह्यते भूभुजा तस्य गृहगेन समन्वितम् ॥१॥ अथार्थलाभस्य स्वरूपमाहलाभस्त्रिविधो नवो भूतपूर्वः पैन्यश्च ॥ १०२ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy