________________
१७६
नीतिवाक्यामृते
आकारं शौर्यं प्रज्ञासम्पत्तिरायतिर्विनयश्च राजपुत्राणां भाविनो राज्यस्य लिंगानि ॥ ११ ॥
प्रकृतेर्विकृतिदर्शनं हि प्राणिनां भविष्यतेः शुभस्याशुभस्य चोपालिंगं ॥ १२ ॥
एकस्मिन् कर्मणि दृष्टबुद्धिपुरुषकारः कथं नाम न कर्मान्तरे समर्थः ॥ १३ ॥
आप्तपुरुषोपदेश आगमः ॥ १४ ॥
यथानुभूतानुमितश्रुतार्थाविसंवादिवचनः पुमानाप्तः ॥ १५ ॥ सा वागुक्ताप्यनुक्तसमा यत्र नास्ति सद्युक्तिः ॥ १६ ॥ वक्तुर्गुणगौरवाद्वचन गौरवं ॥ १७ ॥
किं मितम्पचेषु धनेन चंडालसरसि वा जलेन यत्र संतां नोपभोगः ॥ १८ ॥
लोकस्तु गतानुगतिको यतोऽसौ सदुपदेशिनीमपि कुट्टिनीं धर्मेषु न तथा प्रमाणयति यथा गोन्नमपि ब्राह्मणं ॥ १९ ॥ इति विचार - समुद्देशः ।
१ भविष्यतोः शुभाशुभयोर्लिगं मु-पुस्तके । २ श्रुतार्थो वाविसंवादिवचनः मु-पुस्तके | ३ वचनगौरवं न स्वतः मु-पुस्तके ४ मिनं परिमितं पचन्ति ते मितंपचाः कृपणा इत्यर्थः । ५ स्वतां मू-पुस्तके । यत्र न सन्तानोपभोगः मु-पुस्तके ।' सदुपदेशेषु च ' धर्मेषु इत्यस्य स्थाने मु-पुस्तके पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International