________________
२००
नीतिवाक्यामृते
धिमध्ये पोतच्युतस्य तीर्थभ्रष्टस्य पक्षिण आश्रयो नास्ति तथा राज्ञो दुर्गरहितस्य । तथा च शुक्रः
दुर्गेण रहितो राजा पोतभ्रष्टो यथा खगः।
समुद्रमध्ये स्थानं न लभते तद्वदेव सः ॥१॥ अथ जिगीषोः परदुर्गलंभार्थमुपायानाह
उपायतो गमनमुपजापश्चिरानुबन्धोऽवस्कन्दतीक्ष्णपुरुषोपयोगश्चेति परदुर्गलंभोपायाः ॥ ६ ॥
टीका--सामादिभिरुपायैस्तावत् शत्रुदुर्गाविगमनं । तथोपजापो भेदः कार्यः । तथा चिरानुबन्धश्चिरकालवेष्टनं । तथावस्कन्दो धाटीप्रदानच्छलेन । तथा तीक्ष्णपुरुषप्रयोगस्तीक्ष्णा ये पुरुषा घातकास्ते शत्रोः प्रहेतव्याः। यदि वा तीक्ष्णा विषधरास्तैः परदुर्ग शोधनीयं इत्येते परदुर्गहरणे विजिगीषोरुपायाः । तथा च शुक्रः
न युद्धेन प्रशक्यं स्यात्परदुर्ग कथंचन।
मुक्त्वाभेदाापायांश्च तस्मात्तान् विनियोजयेत् ॥ १॥ तथा च
शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः ।
परेषामपि वीर्याढ्यं तस्माद्दुर्गेण युध्यते ॥१॥ अथ राज्ञा दुर्गविषये यत्कर्तव्यं तदाहनामुद्रहस्तोऽशोधितो वा दुर्गमध्ये कश्चित् प्रविशेनिर्गच्छेद्वा ॥७॥
टीका-राज्ञो यदुर्ग तत्र मुद्रया बाह्यमशोधितस्य पुरुषस्य प्रवेशो न देयो निर्गमश्च न देयः । तथा च शुक्रः
१ यस्य हस्ते राजमुद्रा न दत्ता। २ कोऽयं कुत्रत्यः कस्मादागतः कुत्र वा गच्छतीति न विचारितः।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org