SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०० नीतिवाक्यामृते धिमध्ये पोतच्युतस्य तीर्थभ्रष्टस्य पक्षिण आश्रयो नास्ति तथा राज्ञो दुर्गरहितस्य । तथा च शुक्रः दुर्गेण रहितो राजा पोतभ्रष्टो यथा खगः। समुद्रमध्ये स्थानं न लभते तद्वदेव सः ॥१॥ अथ जिगीषोः परदुर्गलंभार्थमुपायानाह उपायतो गमनमुपजापश्चिरानुबन्धोऽवस्कन्दतीक्ष्णपुरुषोपयोगश्चेति परदुर्गलंभोपायाः ॥ ६ ॥ टीका--सामादिभिरुपायैस्तावत् शत्रुदुर्गाविगमनं । तथोपजापो भेदः कार्यः । तथा चिरानुबन्धश्चिरकालवेष्टनं । तथावस्कन्दो धाटीप्रदानच्छलेन । तथा तीक्ष्णपुरुषप्रयोगस्तीक्ष्णा ये पुरुषा घातकास्ते शत्रोः प्रहेतव्याः। यदि वा तीक्ष्णा विषधरास्तैः परदुर्ग शोधनीयं इत्येते परदुर्गहरणे विजिगीषोरुपायाः । तथा च शुक्रः न युद्धेन प्रशक्यं स्यात्परदुर्ग कथंचन। मुक्त्वाभेदाापायांश्च तस्मात्तान् विनियोजयेत् ॥ १॥ तथा च शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । परेषामपि वीर्याढ्यं तस्माद्दुर्गेण युध्यते ॥१॥ अथ राज्ञा दुर्गविषये यत्कर्तव्यं तदाहनामुद्रहस्तोऽशोधितो वा दुर्गमध्ये कश्चित् प्रविशेनिर्गच्छेद्वा ॥७॥ टीका-राज्ञो यदुर्ग तत्र मुद्रया बाह्यमशोधितस्य पुरुषस्य प्रवेशो न देयो निर्गमश्च न देयः । तथा च शुक्रः १ यस्य हस्ते राजमुद्रा न दत्ता। २ कोऽयं कुत्रत्यः कस्मादागतः कुत्र वा गच्छतीति न विचारितः। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy