SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ दुर्गसमुद्देशः। १९९ वैषम्यं पर्याप्तावकाशो यवसेन्धनोदकभूयस्त्वं खस्य परेपामभावो बहुधान्यरससंग्रहः प्रवेशापसारौ वीरपुरुषा इति दुर्गसम्पत्, अन्यद्वन्दिशालावत् ॥ ३॥ टीका-दुर्गस्य यासौ सम्पत् विभूति: सा किंविशिष्टा ? वैषम्यं तावत् विषमता पर्वतेन, तथा पर्याप्तावकाशो विस्तीर्णता तथा यवसेन्धनोदकभूयस्त्वं यवसो घासः,इन्धनं काष्ठानि, उदकं पानीयं एतेषां त्रयाणां भूयस्त्वं प्रचुरत्वं, कस्य ? स्वस्यात्मनः एतानि वस्तूनि यत्र दुर्गे । तथा एतेषां पूर्वोक्तानां परेषां शत्रूणां ये रोधार्थमागच्छन्ति तेषामभावो यत्र दुर्गद्वारे पूर्वोदितानि वस्तूनि न भवन्ति । तथा यत्र दुर्गे बहुधान्यरससंग्रहः प्रवेशापसारौ भवतः प्रभूतानि धान्यानि प्रभूता रसा अन्यद्वारेण प्रविशन्ति अपसरन्ति निर्गच्छन्तीति निर्गमश्च प्रवेशश्च यस्मिन् दुर्गे तावुभौ सर्वषामेव वस्तूनां तदुर्ग अन्यद्वन्दिशालेव न दुर्ग तत् यदेवंविधं न स्यात् गुप्तिरन्यथा । तथा च शुक्रः न निर्गमा प्रवेशश्च यत्र दुर्गे प्रविद्यते । अन्यद्वारेण वस्तूनां न दुर्ग तद्धि गुप्तिदं ॥१॥ अथ यस्मिन् देशे दुर्ग न भवति तत्स्वरूपमाहअदुर्गो देशः कस्य नाम न परिभवास्पदं ॥४॥ टीका-यत्र देशे दुर्ग न भवति स देशः कस्य नामाहो परिभवास्पदं परिभवस्थानं न भवति । अपि तु सर्वेषामेव नृपशत्रूणां । अथ दुर्गरहितस्य राज्ञो यद्भवति तदाह --- अदुर्गस्य राज्ञः पयोधिमध्ये पोतच्युतपक्षिवदापदि नास्त्याश्रयः ॥५॥ टीका-दुर्गरहितस्य राज्ञः आश्रयः स्थानं नास्ति कस्यां ? आपदि व्यसने स्थिते । किंवत् ? पयोधिमध्ये पोतच्युतपक्षिवत् यथा पयो Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy