________________
२० दुर्ग-समुद्देशः।
अथ दुर्गसमुद्देशो लिख्यते । तत्रादावेव दुर्गलक्षणमाह
यस्याभियोगात्परे दुःखं गच्छन्ति दुर्जनोद्योगविषया वा स्वस्यापदो गमयतीति दुर्ग ॥ १ ॥
टीका-यस्य दुर्गस्याभियोगात्प्राप्तेः परे शत्रवो दुःखं यान्ति तथा दुर्जनान्वेषणायां यत्तद्ग्रहणाथै योऽसावुद्यमः तस्य विषयो गोचरं यदुर्ग लक्षेन प्रविशति । तथा च व्यास:
ज्ञेयं वप्रवनावासप्रासादानां च सम्भवं ।
उत्तरे भूरिजं दानं ज्ञात्वा कार्य विपद्भवम् ॥१॥ तथा स्वस्य विजगीषां (षोः) स्वामिनो यदुर्ग नाशं नयति । कां ? आपदं व्यसनं तदुर्गमुच्यते । तथा च शुक्रः
• यस्य दुर्गस्य संग्राप्तेः शत्रवो दुःखमाप्नुयुः।
स्वामिनं रक्षयत्येव व्यसने दुर्गमेव तत् ॥१॥ दंष्याविरहितः सर्पो यथा नागो मदच्युतः ।
दुर्गेण रहितो राजा तथा गम्यो भवेद्रिपोः ॥२॥ अनु च
देशगर्भे तु यदुर्ग तदुर्ग शस्यते बुधैः।
देशप्रान्तगतं दुर्ग न सर्व रक्षितो जनैः ॥१॥ तद्विविधमाहार्य स्वाभाविकं च ॥ २॥
टीका-आहार्य यत्स्वयं क्रियते। स्वाभाविकं यत्स्वयं जातं पर्वतदुर्ग जलदुर्ग स्थलदुर्ग च ।
अथ दुर्गसम्पदः स्वरूपमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org