SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ दुर्गसमुद्देशः। २०१ प्रविशन्ति नरा यत्र दुर्गे मुद्राविवर्जिताः । अशुद्धा निःसरन्ति स्म तदुर्ग तस्य नश्यति ॥१॥ अथ दुर्गविषये दृष्टान्तमाह श्रूयते किल हूणाधिपतिः पण्यपुटवाहिभिः सुभटैः चित्रकूट जग्राह ॥८॥ टीका–एतत् किल श्रूयते हूणाधिपतिर्यो राजा स जग्राह, किं तत् ? चित्रकूटं । कैः कृत्वा ? सुभटैः । किंविशिष्टैः ? पण्यपुटवाहिभिः पण्यपुटा क्रियाणकानां स्थागिकाः प्रोच्यते तासां मध्ये प्रविश्य सायुधान् पुरुषान् प्रभूतांस्ततो रात्रौ निष्क्रामयित्वा दुर्गाधिपत्यं व्यापाद्य जग्राह । तथा च गुरु: भिन्दापयति यो राजा करिष्णाय शलाकया । स्थगिका वणिजानां च तस्य दुर्ग न नश्यति ॥१॥ अथान्यमपि दृष्टान्तमाहखेटखड्गधरैः सेवार्थ शत्रुणा भद्राख्यं कांचीपतिमिति ॥९॥ टीका-तथा खेटखङ्गधरा ये पुरुषा नियोधकाः खेटेनाभ्यासेन ये खड्गं धरन्ति ते, सेवार्थ कांचिपतेः शत्रुणा प्रहिताः तैर्भद्राख्यं कांचीपतिं व्यापद्य स्वस्वामिनः कांची दत्ता एवं ज्ञात्वा परदेशगतानां सेवकानां विश्वासो न कर्तव्यः । तथा च जैमिनि: स्वदेशजेषु भृत्येषु विश्वासं यो नृपो ब्रजेत् । स द्रुतं नाशमायाति जैमिनिस्त्विदमब्रवीत् ॥१॥ इति दुर्गसमुद्देशः । १ पण्यवस्तुवाहकवेषेण स्वसैनिकान् प्रवेशयित्वा चित्रकूटं स्ववशं प्रापितवान्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy