SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१ कोश-समुद्देशः। अथ कोशसमुद्देशो व्याख्यायते । तत्रादावेव कोशलक्षणमाह यो विपदि सम्पदि च स्वामिनस्तंत्राभ्युदयं कोशयतीति कोशः ॥१॥ टीका-कुश आश्लेषणे । अर्थवृद्धिं करोतीत्यर्थः । कस्मिन् काले तंत्रवृद्धि सैन्यवृद्धि करोति ? सम्पदि तथा विपदि च स कोश: कथ्यते । सम्पत्काले तंत्रवृद्धिं करोति आपत्काले च । तथा च शुक्रः आपत्काले च सम्प्राप्ते सम्पत्काले विशेषतः। तंत्रं विवर्धयते राज्ञां स कोशः परिकीर्तितः ॥१॥ अथ कोशगुणानाह सातिशयहिरण्यरजतप्रायो व्यावहारिकनाणकबहुलो महापदि व्ययसहश्चेति कोशगुणाः ॥ २॥ ___ टीका-~यस्मिन् कोशे सातिशयमतिशयसहितं हिरण्यं सुवर्ण भवति तथा रजतं रूप्यं प्रायो बाहुल्येन, व्यावहारिकाणि यानि नाणकानि द्रम्मात्मकानि तैर्बहुलः प्रचुरः, व्ययसहः प्रभूतव्ययसमर्थः, कस्या ? आपदि । स कोश: कथ्यते । तथा च गुरु: आपत्काले तु सम्प्राप्ते बहुव्ययसहक्षमः । हिरण्यादिभिः संयुक्तः स कोशो गुणवान् स्मृतः ॥१॥ अथ कोशवृद्धिं कुर्वता भूभुजा यत्कर्तव्यं तदाह---- कोशं वर्धयन्नुत्पन्नमर्थमुपयुञ्जीत ॥ ३ ॥ १ यः सम्पदि विपदि च स्वामिनस्तंत्राभ्युदयं करोति कोशयति संश्लेषयतीति स कोश इति पाठान्तरं मुद्रित-पुस्तके । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy