________________
कोशसमुद्देशः।
२०३
टीका-कोशवृद्धिं नयन् उत्पन्नमर्थमुपयुञ्जीत । एतदुक्तं भवति कोशस्थाने यदुत्पाद्यते धनं तद्वृद्ध्वा किंचित्किंचिद्भक्षणीयं न कोशास्वल्पमपि ग्राह्यं । तथा च वशिष्ठः
कोशवृद्धिः सदा कार्या नैव हानिः कथंचन ।
आपत्काले दृते प्राज्ञैर्यत्कोशो राज्यरक्षकः ॥१॥ अथ कोशमवर्धयतो राज्ञो यद्भवति तदाहकुतस्तस्यायत्यां श्रेयांसि यः प्रत्यहं काकिण्यापि कोशं न वर्धयति ॥४॥
टीका-कुतस्तस्यायत्यां परिणामे आगामिनि काले श्रेयांसि कल्याणानि पार्थिवस्य भवन्ति । कस्मान्न कदाचिदेव । यः किं करोति ? न वर्धयति न वृद्धिं नयति । कं? कोशं । कया ? काकिण्यापि नित्यमेव । तस्माद्भभुजा सदैव कोश आपद्विनाशनिमित्तं वृद्धि नेयः । तथा च गुरु:
काकिण्यापि न वृद्धिं यः कोशं नयति भूमिपः।
आपत्काले तु सम्प्राप्त शत्रुभिः पीड्यते हि सः॥१॥ अथ कोशो महीपतीनां यादृशस्तमाहकोशो हि भूपतीनां जीवितं ने प्राणाः ॥ ५ ॥
टीका-योऽसौ कोशः, स किंविशिष्टः ? जीवितं । केषां ? महीपतीनां । यतस्तस्य क्षये संजाते वृत्त्यभावात् सेवकैर्मुच्यते ततः शत्रुभि-.. विध्यत इति । तथा च भागुरिः ।
कोशहीनं नृपं भृत्या कुलीनां अपि चोन्नतं । संत्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः॥१॥ अथ कोशहीनो राजा यत्करोति तदाह
क्षीणकोशो हि राजा पौरजनपदानन्यायेन ग्रसते ततो राष्ट्रशून्यता स्यात् ॥ ६॥ १ पुस्तकेऽयं पाठो वर्तते न चास्य व्याख्यास्ति । २ कुलिनपि पुस्तके पाठः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org