SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २०४ नीतिवाक्यामृते टीका--ग्रसते दण्डयति । कोऽसौ ? राजा। कान् ? पौरजनपदान् । किंविशिष्टो राजा ? क्षीणकोशो गतभाण्डागारः । छलं विनापि जनान् दण्डयति ततो राष्ट्रशून्यता भवति एवं ज्ञात्वा भूभुजा कोशवृद्धिः करणीया । तथा च गौतमः कोशहीनो नृपो लोकान् निर्दोषानपि पीडयेत् । तेऽन्यदेशं ततो यान्ति ततः कोशं प्रकारयेत् ॥१॥ अथ कोशस्य माहात्म्यमाह--- कोशो राजेत्युच्यते न भूपतीनां शरीरं ॥ ७॥ टीका-य: कोश: स राजोच्यते न शरीरं । तथा च रैभ्यः---- राजाशब्दोऽत्र कोशस्य न शरीरे नृपस्य च । कोशहीनो नृपो यस्माच्छश्रुभिः परिपीड्यते ॥ १॥ अथ द्वयोर्नुपयोः संग्रामकाले जाते यस्य जयो भवति तमाहयस्य हस्ते द्रव्यं स जयति ॥ ८॥ टीका-गतार्थमेतत् । अथ धनहीनस्य यद्भवति तदाहधनहीनः कलत्रेणापि परित्यज्यते किं पुनर्नान्यैः ॥९॥ टीका-गतार्थमेतत् । अथ राजा कुलीनोऽपि न यथा सेव्यतामेति तदाहन खलु कुलाचाराभ्यां पुरुषः सेव्यतामेति ॥ १० ॥ टीका-वृत्तिमलभमानानां सेवकानां खलु निश्चयेन । एतदुक्तं भवति । धनहीनः कुलीनो वा न सेव्यते केनापि तथाचारवानपि । अथ सर्वोऽपि पुरुषो यदि वित्तदो भवति सोऽकुलीनोऽपि आचारभ्रष्टोऽपि सेव्यते वृत्त्यर्थं तस्मादृद्धि नेयः । तथा च व्यास: अर्थस्य पुरुषो दासो नार्थो दासोऽत्र कस्यचित् । अर्थार्थ येन सेव्यन्ते नीचा अपि कुलोद्भवैः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy