SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ कोशसमुद्देशः । अथ धनस्य माहात्म्यमाह स खलु महान् कुलीनश्च यस्यास्ति धनमनूनं ॥ ११ ॥ टीका- -यस्य पुरुषस्य अस्ति विद्यते । किं तत् ? धनं । किंविशिष्टं ? अनूनं प्रचुरं । स किंविशिष्टो ? महान् महत्वसहितः तथा च कुलीनश्च निकृष्टोऽपि जराजतोऽपि ? | एवं ज्ञात्वा कोशो वृद्धिं नेयः । तथा च जैमिनि: २०५ : कुलीनोऽपि सुनीचोऽत्र यस्य नो विद्यते धनम् । अकुलीनोऽपि सद्वंश्यो यस्य सन्ति कपर्दिकाः ॥ १ ॥ अथ कुलीनमहत्वयोर्दूषणमाह किं तया कुलीनतया महत्तया वा या न सन्तर्पयति परान् ।। १२ ।। - टीका — किं तया महत्तया माहात्म्येन व्यर्थेन । तथा कुलीनतया व्यर्थया । किं या न सन्तर्पयति न पोषयति । कान् ? परान् समाश्रितान् । तथा च गर्ग: Jain Education International वृथा तद्धनिनां वित्तं यन्न पुष्टि नयेत्परान् । कुलीनोऽपि किं तेन कृपणेन स्वभावतः ॥ १ ॥ तस्य किं सरसो महत्वेन यत्र न जलानि ॥ १३ ॥ टीका — गतार्थमेतत् । अथ क्षीणकोशेन राज्ञा कोश: कर्तव्यो यथा तदाहदेवद्विजवणिजां धर्माध्वरपरिजनानुपयोगिद्रव्य भागैराढ्यविधवानियोगिग्रामकूटगणिकासंघ पाखण्डिविभवप्रत्यादानैः समृद्धपौरजानपदद्रविणसंविभागप्रार्थनैरनुपक्ष्यश्री का मंत्रिपुरोहितसामन्त भूपालानुनयग्रहागमनाभ्यां क्षीणकोशः कोशं कुर्यात् १४ टीका -- एतैश्चतुर्भिः पदार्थैः कोशवृद्धिं कुर्यात् । कथं देवद्विजवणिजां यद्वत्तं धनमनुपयोगि अवशेष, केषां धर्माध्वरपरिजनानां यथासं For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy