SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २०६ नीतिवाक्यामृते ख्येन येन द्रव्येण धर्मक्रिया न भवति तस्य धर्म (न) स्य किं कार्य भूभुजा तस्य विभागकार्यः, एतेन द्रव्येण एतेषां निर्वाहो भवति, शेषा ये विभागास्तैः कोशस्य वृद्धिं कुर्यात् । तथा आढ्या ये जनास्तथा विधवा याः स्त्रियाः, तथा नियोगिनो ये धर्माधिष्ठानकारिणः, तथा ग्रामकूटा ये ग्रामव्यवहारिणः, तथा, वेश्यासंघातः तथा पाखण्डिजना ये स्युः तेषां योऽसौ विभवस्तस्य प्रत्यादानैः ग्रहणैः कोशवृद्धिं कुर्यात् । प्रत्यादानशब्देन नृपाणां अर्थादायः प्रोच्यते तेषां मध्यात् कश्चिदर्थादायस्तेषामाढ्यादीनां ग्रहणके आर्धो घर्तव्यः ततोऽर्थस्तेभ्यः सकाशात् गृहीत्वा क्षीणकोशेन राज्ञा कोशवृद्धिः कार्येति । तथा समृद्धा ये पौराः पुरखासिनः तथा जनपदाः कुटुम्बिनः समृद्धास्तेषां यद्भविणं वित्तं तस्य संविभागप्रार्थनैः साम्ना कोशवृद्धिं कुर्यात् । अनुपहतश्रीका नोपक्षयं गता येषां श्रीलक्ष्मीस्ते मंत्रिपुरोहित सेनापतिसामन्तभूपालास्तेषामनुनयगृहागमनाभ्यां व याचित्वा द्रव्यं कोशेष्टवृद्धिं कुर्यात् । च शुक्रः देवद्विजातिशूद्राणामुपभोगाधिकं धनं । क्षीणकोशेन संग्राह्यं प्रविचिन्त्य विभागतः ॥ १ ॥ तथा च पौराणां राष्ट्रजातानां ग्राह्यं साम्ना च नान्यथा । दर्शयित्वा तथादायां ग्राह्यं वित्तं ततो नृपैः ॥ १ ॥ तथा शाश्वतलक्ष्मीकान् पुरोहितसमंत्रिणः । श्रोत्रियांश्चैव सामन्तान् सीमापालांस्तथैव च ॥ २ ॥ गृहं गत्वा प्रयाचेत यथा तुष्टिमाययुः ॥ ३ ॥ इति कोशसमुद्देशः । Jain Education International For Private & Personal Use Only तथा www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy