SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२ बल - समुद्देशः । अथ बलस्वरूपमाह द्रविणदानप्रियभाषणाभ्यामरातिनिवारणेन यद्धि हितं स्वामिनं सर्वावस्थासु बलते संवृणोतीति बलम् ॥ १ ॥ टीका - प्रयोजनावस्थासु दशासु बलते बलं ददाति संवृणोतीति केनारातिनिवारणेन शत्रुनिषेधेन तद्वलं सैन्यमुच्यते । तथा च शुक्रःधनेन प्रियसंभाषैर्यतश्चैव पुरार्जितम् । आपद्भयः स्वामिनं रक्षेत्ततो बलमिति स्मृतम् ॥ १ ॥ अथ बलस्य स्वरूपमाह बलेषु हस्तिनः प्रधानमङ्गं स्वैरवयवैरष्टायुधा हस्तिनो भवन्ति ॥ २ ॥ टीका -- चतुर्भिः पादैस्तावद्युध्यन्ते दन्तयुगलेन च शुण्डया पुच्छेन च शत्रून् विनाशयतीति न चान्यद्बलं अष्टाङ्गैर्युध्यते इति । तथा च पालकिः अष्टायुधो भवेद्दन्ती दन्ताभ्यां चरणैरपि । तथा च पुच्छशुण्डाभ्यां संख्ये तेन स शस्यते ॥ १ ॥ अथ हस्तिनां माहात्म्यमाह हस्तिप्रधानो विजयो राज्ञां यदेकोऽपि हस्ती सहस्रं योधयति न सीदति प्रहारसहस्त्रेणापि ॥ ३ ॥ टीका- राज्ञां योऽसौ विजयः । स किंविशिष्टः ? हस्तिप्रधानो हस्तिमुख्यः । ननु कथं हस्तिप्रधानो विजयो ? यद्यस्मादेकोऽपि हस्ती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy