SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २०८ नीतिवाक्यामृते सहस्रं योधयति तथा सहस्राणामपि प्रहाराणां लग्नेन न सीदति न व्यथां याति । तथा च शुक्रः सहस्रं योधयत्येको यतो याति न च व्यथां । प्रहारैर्बहुभिर्लग्नस्तस्माद्धस्तिमुखो जयः ॥ १॥ अथ हस्तिनां यत्प्रधानबलं तदाह जातिः कुलं वनं प्रचारश्च न हस्तिनां प्रधानं किन्तु शरीरं बलं शौर्य शिक्षा च तदुचिता च सामग्रीसम्पत्तिः ॥ ४ ॥ __टीका-हस्तिनां किल चत्वारि बलानि जातिकुलवनप्रचारसम्भवानि तेषां मध्ये यच्छशीरं बलं तत्प्रधानं यदि पुष्टिर्न भवति. शरीरस्य ततः सर्वाण्येतानि आपदानि । जातिश्चतुर्विधा मन्द-मृग-संकीर्ण-भद्रसंज्ञा । तथा कुलमष्टविधं, ऐरावत: पुण्डरीककामनः कुमुदः अञ्जनः पुष्पदन्तः सार्वभौमः सुप्रतीकानं सन्तानं । तथा वनमष्टविधं प्राच्यमगरूपकं दाशार्ण मार्गणरवकं कालेयकं अपरान्तिकं सौराष्ट्र पंचनन्दमिति गजवनानि । प्रचारास्त्रयः पर्वतप्रचारः नदीप्रचारः उभयप्रचारश्चेति । तथा च बल्लभदेवः जातिवंशवनभ्रान्तैलैरेतैश्चतुर्विधैः। युक्तोऽपि बलहीनः स यदि पुष्टो भवेन च ॥१॥ अथाशिक्षिता हस्तिनो यादृशा भवन्ति तानाहअशिक्षिता हस्तिनः केवलमर्थप्राणहराः ॥५॥ टीका-ये हस्तिनोऽशिक्षिता भवन्ति अक्रीडापिता भवन्ति तेऽर्थप्राणहराः । एकं तावदर्थ हरन्ति घासादिभिः । अपरं प्राणान् हरन्ति महामात्रादिकानां । तस्माद्भभुजा मुशिक्षिता हस्तिनः कर्तव्याः। तथा च नारदः-- शिक्षाहीना गजा यस्य प्रभवन्ति महीभृतः। कुर्वन्ति धननाशं ते केवलं जनसंक्षयम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy