________________
बलसमुद्देशः।
अथ गजैर्यद्भवति तदाह
सुखेन यानमात्मरक्षा परपुरावमर्दनमरिव्यूहविधातो जलेषु सेतुबन्धा वचनादन्यत्र सर्वविनोदहेतवश्चेति हस्तिगुणाः ॥६॥ __टीका-एते हस्तिनां गजानां गुणाः । एकं तावत् सुखेन यानं गजैः क्रियते । तथात्मरक्षा भवति । परपुरावमर्दनं शत्रुपुरभंगः । तथारिव्यूहविघातः शत्रुसमुदायविघातः । तथा जलेषु नदीसंभवेषु सेतुबन्धाः क्रियन्ते । तथा वचनादन्यत्र सर्वविनोदहेतवः संभाषणं मुक्त्वान्ये सर्वे विनोदा हस्तिनां सकाशाद्भवन्तीति हस्तिगुणाः । तथा च भागुरिः--
सुखयानं सुरक्षा च शत्रोः पुरविभेदनम्।। शत्रुव्यूहविधातश्च सेतुबन्धो गजैः स्मृतः ॥१॥ अथाश्वसैन्येन यद्भवति तदाहअश्वबलं सैन्यस्य जंगमं प्रकारः ॥ ७॥
टीका-यदश्वबलं । किंविशिष्टं ? प्रकारलक्षणं। पुनरपि कथंभूतं ? जंगमं बलं । यत्र स्थाने वाञ्छा क्रियते तत्र याति । कस्य प्रकारभूतं ? सैन्यस्य । एतदुक्तं भवति, यत्र स्थाने सैन्यं गच्छति तत्र परिवर्ज (र्य) रक्षां करोति । तथा च नारदः
तुरंगमवलं यच्च तत्प्रकारो बलं स्मृतं । सैन्यस्य भूभुजा कार्य तस्मात्तद्वेगवत्तरम् ॥१॥ अथाश्वबलस्य माहात्म्यमाह
अश्वबलप्रधानस्य हि राज्ञः कदनकन्दुकक्रीडाः प्रसीदन्ति, भवन्ति दूरस्था अपि करस्थाः शत्रव आपत्सु सर्वमनोरथसिद्धयस्तुरंगमा एव शरणमवस्कन्दः परानीकभेदनं च तुरंगमसाध्य मेतत् ।। ८॥
नीति.-१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org