SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २१० नीतिवाक्यामृते ___टीका-एतत्सर्वे तुरंगमसाध्यं भवति राज्ञोऽश्वबलप्रधानस्य कदनकन्दुकक्रीडाः प्रसीदन्ति विनोदतां यान्ति कदनं युद्धं तदेव कन्दुकी सूत्रमयस्तेन यथा क्रीडाविनोदः क्रियते तथाश्वबलेनापि राज्ञो युद्धक्रीडा विनोदयति (विनोदतां याति) तथैते शत्रवः। किंविशिष्टाः ? करस्था इव दूरस्था अपि । तुरंगमा एव शरणं रक्षास्थानं । कासु ? आपत्सु । तथा समस्तमनोरथसिद्धयो विजिगीषोर्भवन्ति । तथावस्कन्दो धाटीप्रदानं । तथा परानीकभदेनं च तुरंगमसाध्यमेव । तथा च शुक्रः प्रेक्षतामपि शत्रूणां यतो यान्ति तुरंगमैः । भूपाला येन निघ्नन्ति शत्रु दूरेऽपि संस्थितम् ॥ १॥ अथ जात्याश्वानां माहात्म्यमाह जात्यारूढो विजिगीषुः शत्रोभवति तत्तस्य गमनं नारातिददाति ॥९॥ टीका-नारातिर्ददाति । किं तत् ? गमनं । कस्य ? शत्रोः । किंविशिष्टस्य ? न्यूनस्येति । अथ जात्याश्वानामुत्पत्तिस्थानान्याह तर्जिका, ( स्व ) स्थलागा करोखरा गाजिगाणा केकाणा पुष्टाहारा गाव्हरा सादुयारा सिन्धुपारा जात्याश्वानां नवोत्पत्तिस्थानानि ॥१०॥ तथा च शालिहोत्रम्तर्जिका स्वस्थलाणा सुतोखरास्थोत्तमा हयाः। गाजिगाणाः सकेकाणाः पुष्टाहाराश्च मध्यमाः॥१॥ गाव्हरा सादुयाराश्च सिन्धुपारा कनीयस्थाः। अश्वानां शालिहोत्रेण जातयो नव कीर्तिताः ॥२॥ अथ रथबलस्य स्वरूपमाह-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy