SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ बलसमुद्देशः। २११ समा भूमिधनुर्वेदविदो रथारूढाः प्रहतारो यदा तदा किमसाध्यं नाम नृपाणां ॥ ११ ॥ टीका-यदा धनुर्वेदविदो महाधानुष्का रथारूढा भवन्ति तथा समा गर्तपाषाणरहिता भूमिर्भवति । किंविशिष्टा धानुष्काः ? प्रहतारो युद्धशौंण्डास्तदा किं नामाहो असाध्यं भवति। केषां ? नृपाणां । सर्वमेव साधयंतीत्यर्थः । तथा च शुक्रः रथारूढाः सुधानुष्का भूमिमागे समे स्थिताः। युयन्ते यस्य भूपस्य तस्यासाध्यं न किंचन ॥१॥ अथ भूयोऽपि रथमाहात्म्यमाह रथैरवमर्दित परबलं सुखेन जीयते मौल-भृत्यक-भृत्य-श्रेणी मित्राटविकेषु पूर्व पूर्व बलं यतेत ॥ १२ ॥ टीका-रथैरवमर्दितं यत्परबलं यद्राजा सुखेन जीयते व्यापादयति तस्मात्परबलं समाहि (?) व्यापादयितुं यतेत यत्नं कुर्यात्। सत्सु मौलभत्यकभायश्रेणिमित्राटविकेषु, मूले भवा मौला ये योद्धारः, तथा भत्यका नियोगिनः, तथा भृत्याः सामान्यसेवकाः, तथा श्रेणिसंज्ञा योजयनशालाधिपादयः, तथा मित्रसंज्ञा ये सुहृदः तथाटविका येऽटव्यां वसन्ति आज्ञां कुर्वन्ति, तेषु सम्बन्धि यद्दलं तेन पूर्व प्रथमं यद्बलं सारभूतं विजिगीषुणा तेन बलेन परबल सुखेन हन्तव्यं । तथा च नारदः रथैर्विमर्दितं पूर्व परसैन्यं जयेन्नृपः। षतिबेलैः समादिष्टैौलायैः ससुखेन च ॥ १॥ अथौत्साहिकबलस्य सप्तमस्य गुणानाहअथान्यत्सप्तममौत्साहिकं बलं यद्विजिगीपोर्विजययात्राकाले १ अस्य व्याख्या पुस्तके नास्ति । तथा सुगममेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy