SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते परराष्ट्रविलोडनार्थमेव मिलति क्षत्रसारत्वं शस्त्रज्ञत्वं शौर्यसारत्वमनुरक्तत्वं चेत्यौत्साहिकस्य गुणाः || १३ || टीका यौत्साहिकबलस्यैते चत्वारो गुणा भवन्ति । प्रथमं ताव - क्षत्रसारत्वं क्षत्रा राजपुत्रास्तैः सारत्वं प्रधानं यस्य । तथा शस्त्रज्ञत्वं शस्त्रविद्याकुशलत्वं । तथा शौर्यसारत्वं शूरैः पुरुषः प्रधानत्वं । तथानुरक्तत्व सानुरागं यत् । एते चत्वारोऽपि यस्य बलस्य गुणा औत्साहिकस्य तेन परबलं हन्यते । तथा च नारदः २१२ क्षत्रियाढ्यं सुशस्त्रज्ञं शूरसारं सरागकृत् । यद्वलं तद्वलं प्रोक्तं न तत्स्यादन्यदेव यत् ॥ १ ॥ अन्यदपि बलं भूभुजा यथा कार्य तदाहमौलचलाविरोधेनान्यद्धलमर्थमानाभ्यामनुगृह्णीयात् ॥ १४ ॥ टीका — अनुगृह्णीयात् सानुरागं कुर्यात् । किं तत् ? अन्यद्वलं यत्रो - त्कालौरुत्सुक्यसंज्ञं । केन कृत्वा : मौलबलाविरोधेन यथा मौलबलं विरोध न करोति । तथा च वादरायणः अन्यद्वलं समायातमौत्सुक्यात्परनाशनं । दानमानेन तत्तोष्यं मौलसैन्याविरोधतः ॥ १ ॥ अथ मौलसैन्यं यादृग्भवति तदाहमौलाख्यमापद्यनुगच्छति दण्डितमपि न दुह्यति भवति चापरेषामभेद्यं ॥ १५ ॥ टीका — मौलं बलं व्यसनेऽप्यनुगच्छति । दण्डितमपि न ह्यति न द्रोहं करोति पैररपि न भेद्यते तस्मान्मौलबलस्य नापमानं कुर्वीत । तथा च वशिष्ट: -- न दण्डितमपि स्वयं द्रोहं कुर्यात्कथंचन । मौलं बलं न भेद्यं च शत्रुवर्गेण जायते ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy