SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ बलसमुद्देशः । २१३ अथ स्वामिप्रसादस्य यो गुणः सेवकानां तमाहन तथार्थः पुरुषान् योधयति यथा स्वामिसम्मानः ॥१६॥ टीका-~~न तथार्थः पुरुषान् योधयति संग्राम कारयति यथा प्रभुसम्मान योधयति । तथा च नारायण: न तथा पुरुषानर्थः प्रभूतोऽपि महाहयं । कारापयति योद्धणां स्वामिसंभावना यथा ॥१॥ अथ सैन्यस्य विरक्ति कारणान्याहस्वयमनवेक्षणं देयांशहरणं कालयापना व्यसनाप्रतीकारो विशेषविधावसंभावनं च तंत्रस्य विरक्तिकारणानि ॥ १७ ॥ टीका-एतानि पंच तंत्रस्य सैन्यस्य विरक्तिकारणानि । कानि तानि ? स्वयमनवेक्षणं तावत् स्वयमात्मनैव यन्नित्यमेव नावक्ष्यते । तथा देयांशहरणं देयं वृत्तिलक्षणं यत् तस्य मध्यादेशहरणं विभागग्रहणं । तथा कालयापना दानकाले यासौ वृत्तिः दानलक्षणा तस्य यासौ यापना विलम्बलक्षणा तस्या अभ्यासनं सेवनं व्यसने आपत्काले प्रतीकारचिंत्ता न क्रियते । (विशेषविधौ विशिष्टे काले पुत्रोत्पत्त्यादिसमये असंभावनं किंचिददान)। तथा च भारद्वाज:---- यः सैन्यं वीक्षते नैव वृत्तिभंगं करोति च । न काले यच्छते वृत्ति न विशेषं करोति च ॥१॥ विशेषदर्शिते लोके न विशेषं करोति च। व्यसने च प्रतीकारं यः स्वामी न करोति च ॥ २॥ तस्य तंत्रं प्रयान्येव विरक्तं सर्वतो दिशं । तस्मात्सर्वप्रयत्नेन तोध्यं तंत्रं महीभुजा ॥३॥ अथ सैन्यमनालोकयतः क्षितिपतेर्यद्भवति तदाह १ नास्त्यय सस्थः पाठः पुस्तके किन्तु कल्पितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy