________________
२१४
नीतिवाक्यामृते
---
-
स्वयमवेक्षणीय सन्य परैरवेक्षयनर्थतंत्राभ्यां परिहीयते॥१८॥
टीका--परिहीयते हीनो भवति । काभ्यां ? अर्थतंत्राभ्यां । किं कुर्वन् ? स्वयमवेक्षणीयमात्मनावेक्षणीयं यत्सैन्यं तदन्येषां पादिवलोकयन् । ततस्तत्सीदति तस्माद्भभुजा स्वयमेव सैन्यमवलोकनीयं । तथा च जैमिनि:---
स्वयं नालोकयेत्तंत्र प्रमादाद्यो महीपतिः।। तदन्यैः प्रेक्षितं धूतॆविनश्यति न संशयः ॥१॥ अथ येषु येषु पदार्थेषु प्रतिहस्ता न क्रियन्ते तानाह
आश्रितभरणे स्वामिसेवायां धर्मानुष्ठाने पुत्रोत्पादने च खलु न सन्ति प्रतिहस्ताः ॥ १९ ॥ ___टीका--एतेषु चतुर्षु पदार्थेषु न सन्ति न विद्यन्ते न क्रियन्त इत्यर्थः । के ते? प्रतिहस्ताः । केष्वित्याह, आश्रितभरणे तावत् ये आश्रिताः सेवका भवान्त तेषां स्वयं दृष्टं भक्तकं देयं न परहस्तेन । तथा स्वामिसेवायां यत्प्रयोजनं भवति तत्स्वयमेव विज्ञाप्यं स्वामिने (ना) नान्यस्य मुखेन । तथा धर्मानुष्टाने धर्मकृत्यं यद्भवति तत्स्वयमेव कार्य नान्यपात्किारापनीयं । तथा च शुक्रः ----
भृत्यानां पोषणं हस्ते स्वामिसेवाप्रयोजनं । धर्मकृत्यं सुतोत्याः परपावन्नि कारयेत् ॥ १॥ अथाश्रितानां यथा देयं तदाह---- तावद्देयं यावदाश्रिताः सम्पूर्णतामामुवन्ति ॥ २० ॥ टीका--आश्रितानां सेवकानां कदाचिन्न त्यजन्ति तेषां तावद्देयं वित्त यावत्सम्पूर्णतामाप्नुवन्ति न केनापि सीदन्ति । तथा च शुक्रः--
आश्रिता यस्य सीदन्ति शत्रुस्तस्य महीपतेः। . स सर्वैर्वेष्ट्यते लोकैः कार्पण्याच्च सुदुःस्थितः ॥१॥ १ अस्य व्याख्या नास्ति पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org