SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ बलसमुद्देशः। अथ राज्ञो वृत्तिमयच्छतो भत्यस्य यत्कृत्यं तदाहन हि स्वं द्रव्यमव्ययमानो राजा दण्डनीयः ॥२१॥ टीका-सेवकानां यदि राजा वृत्तिं न प्रयच्छति तद्भठान्न ग्राह्य भवति साम्नैव त्याज्यः । तथा च शुक्रः वृत्त्यर्थ कलहः कार्यों न भृत्यभूमुजा समं। यदि यच्छति नो वृत्तिं नमस्कृत्य परित्यजेत् ॥ १॥ को नाम सचेताः खगुडं चौर्यात्खादेत ॥ २२ ॥ टीका-गतार्थमेतत् । अथ सतृष्णस्य राज्ञो दृष्टान्तमाहकिं तेन जलदेन यः काले न वर्षति ॥ २३ ॥ टीका-गतार्थमेतत् । स किं स्वामी य आश्रितेषु व्यसने न प्रविधत्ते ॥ २४ ॥ टीका-गतार्थमेतत् । अथाविशेषज्ञस्य राज्ञो यद्भवति तदाहअविशेषज्ञे राज्ञिको नाम तस्यार्थे प्राणाव्ययेनोत्सहेत ॥२५॥ टीका-विशेषरहिते राजनि यो विशेषं न जानाति तस्यार्थे को नामाहो कः प्राणव्ययेन प्राणनाशेनोत्सहेत उत्साहं करोति, अपि तु न कोऽपि । तथा चांगिरा:-- काचो मणिर्मणिः काचो यस्य सम्भावनेदशी । कस्तस्य भूपतेरग्रे संग्रामे निधनं व्रजेत् ॥१॥ इति बलसमुद्देशः। १ मुद्रित-पुस्तके त्वयं पाठो नास्ति न चास्य व्याख्याप्यस्ति अस्य प्रयोजनमपि किंचिन्न दृश्यते । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy