SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३ मित्र-समुद्देशः। अथ मित्रसमुद्देशो व्याख्यायते । तत्र तावन्मित्रलक्षणमाहयः सम्पदीय विपद्यपि मेद्यति तन्मित्रम् ॥ १ ॥ टीका-यः पुरुषः सम्पदीव समृद्धकालवत् तथा विपद्यपि आपत्कालेऽपि मेद्यति स्नेहं करोति तन्मित्रम् । तथा च जैमिनिः-- यत्समृद्धो क्रियात्स्नेहं यद्वत्तद्वत्तथापदि । तन्मित्रं प्रोच्यते सद्भिर्वपरीत्येन वैरिणः ॥ १॥ अथ नित्यमित्रस्य लक्षणमाह यः कारणमन्तरेण रक्ष्यो रक्षको वा भवति तन्नित्य मित्रम् ॥ २॥ टीका--यः पुरुषः कारणं विना प्रयोजनं विना रक्ष्यो रक्ष्यते वा विकल्पेन रक्षको भवति तन्नित्यं मित्रमुच्यते । तथा च नारदः रक्ष्यते वध्यमानस्तु अन्यनिष्कारणं नरः। रक्षेद्वा वध्यमानं यत्तन्नित्य मित्रमुच्यते ॥ १ ॥ अथ सहजमित्रलक्षणमाह-- तत्सहज मित्रं यत्पूर्वपुरुषपरम्परायातः सम्बन्धः ॥३॥ टीका--यस्य मित्रस्य पूर्वपुरुषपरंपरायातः सम्बन्धो भवति तत्सहजं मित्रमुच्यते । पूर्वपुरुषाः पितृपितामहाभ्यां द्वाभ्यामपि ताभ्यां यः सम्बन्धस्तेन यः समायातः तत्सहजं मित्रं । तथा च भागुरिः सम्बन्धः पूर्वजानां यस्तेन योऽत्र समाययौ । मित्रत्वं कथितं तच्च सहजं मित्रमेव हि ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy