SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ मित्रसमुद्देशः । २१७ अथ कृत्रिममित्रस्य लक्षणमाह--- यत्तिजीवितहेतोराश्रितं तत्कृत्रिमं मित्रम् ॥ ४ ॥ टीका-यः पुरुषो जीवितहेतोवृत्तिं गृह्णाति स्नेहं दर्शयति तत्कृत्रिमं मित्रमुच्यते यतो वृत्तेरभावान्मैत्री त्यजति । तथा च भारद्वाजः वृत्ति गृह्णाति यः स्नेहं नरस्य कुरुते नरः। तन्मित्रं कृत्रिमं प्राहुर्नीतिशास्त्रविदो जनाः ॥ १॥ अथ मित्रगुणानाह-- व्यसनेषूपस्थानमर्थेष्वविकल्पः स्त्रीषु परमं शौच कोपप्रसादविषये वाप्रतिपक्षत्वमिति मित्रगुणाः ॥५॥ टीका-~-यन्मित्रं व्यसनेष्वापत्कालेषु उपस्थानं करोति समागच्छत्यनाहूतोऽपि । किंविशिष्टः : विकल्पो विकल्परहितः। केषु? अर्थेषु प्रयोजनेषु । तथा स्त्रीषु विषये यः करोति परमं शौच मित्रस्त्रीषु विषये निःस्पृहत्वं करोतीत्यर्थः । तथा कोपप्रसादविषये वाप्रतिपक्षत्वं कोपे समुत्थितेऽप्रतिपक्षत्वं प्रसादनं नापेक्षते स्वयमागच्छेतीति मित्रगुणाः । तथा च नारद:---- आपत्काले च सम्प्राप्ते कार्य च महति स्थिते । कोपे प्रसादनं नेच्छेन्मित्रस्येति गुणाः स्मृताः ॥१॥ अथ मित्रस्य दोषस्वरूपमाह-- दानेन प्रणयः स्वार्थपरत्वं विपद्यपेक्षणमहितसम्प्रयोगो विप्रलम्भनगर्भप्रश्रयश्चेति मित्रदोषाः ॥ ६॥ टीका---( दानेन प्रणयः किंचिद्दत्वा स्नेहकरणं । स्वार्थपरत्वं स्वार्थे नियुक्तता ) विपापेक्षणं आपत्कालेऽसाहाय्यं । तथाहितसंप्रयोगः शत्रुमेलनं । तथा विप्रलंभनगर्भप्रश्रयः विप्रलंभन विप्लवस्तेन गर्भो मिश्रः प्रश्रयो यस्येति मित्रदोषाः । तथा च रैभ्यः--- Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy