SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २१८ नीतिवाक्यामृते दानस्नेहो निजार्थत्वमुपेक्षा व्यसनेषु च। वैरिसंगोऽप्रशंसा च मित्रदोषाः प्रकीर्तिताः॥१॥ अथ मैत्रीभेदकारणान्याहस्त्रीसंगतिर्विवादोऽभीक्ष्णयाचनमप्रदानमर्थसम्बन्धः परोक्षदोषग्रहणं पैशून्याकर्णनं च मैत्रीभेदकारणानि ॥७॥ टीका-~-स्त्रीसंगतिस्तावन्मित्रभार्यासंगमः सदेवास्ते । विवादं यः करोति तथाभीक्ष्णं याचनं । तथाऽप्रदानं न किंचत्कदाचिदपि ददाति । तथाऽर्थसम्बन्धोऽर्थव्यवहारः । तथा परोक्षे दोषग्रहणं । तथा पैशून्याकर्णनं च यदि कचिन्मित्रपैशून्यं करोति तदा तदाकर्णयति । एतानि सप्तवस्तूनि मैत्रीभेदकारणानीति । तथा च शुक्रः स्त्रीसंगतिर्विवादोऽथ सदार्थित्वमदानता। स्वसम्बन्धस्तथा निन्दा पैशून्यं मित्रवैरिता ॥१॥ अथ क्षीरस्य प्रशंसामाह न क्षीरात्परं महदस्ति यत्संगतिमात्रेण करोति नीरमात्मसमं ॥ ८॥ ___टीका-क्षीरादन्यद्वितीयं न महदस्ति न विद्यते । यत् किं कुर्यात् ? यत् संगतिमात्रेणैव करोति । किं तत् ? नीर पानीयं । किं विशिष्टं ? आत्मसममात्मतुल्यं । तस्मात्तेन सह संगतिः क्रियते मिलनमात्रेणैव येन गुणरहितोऽप्यात्मगुणाढ्यः सम्भाव्यते जनैः । तथा च गौतमः गुणहीनोऽपि चेत्संगं करोति गुणिभिः सह । गुणवान् मन्यते लोकैर्दुग्धाढ्यं 'कं यथा पयः ॥१॥ अथ पानीयमाहात्म्यमाहन नीरात्परं महदस्ति यन्मिलितमेव संवर्धयति रक्षति च खक्षयेण क्षीरम् ॥ ९ ॥ १ पानीयं २ अग्नितापनात्स्वयं क्षयं याति दुग्धं च रक्षतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy