________________
मित्रसमुद्देशः ।
२१९
टीका-न नीरात्पानीयात्परमन्यद्वितीयं मित्रमस्ति न विद्यते, कस्माद्धेतोर्यन्मिलितमात्रमेव संवर्धयति वृद्धि नयति तत्क्षीरं दुग्धं । न केवलं संवर्धयति रक्षति च । केन कृत्वा ? स्वक्षयेणात्मविनाशेन । एतदुक्तं भवति, यस्य पानीयस्य मिलितं दुग्धं वृद्धिं याति सर्वोऽपि जनो वेत्ति यदेतत्क्षीरम् । तथा रक्षति च यथात्मक्षयेणात्मविनाशेन, अदर्शनेन पानीयं कश्चिन्न पश्यति यदि पुनरास्वादयति तदुग्धं मत्वा तदाविरसत्वान्न पिबति, एवं रक्षा भवति । तथा च भागुरिः--
न पानीयात्परं मित्रं विद्यते येन मिश्रितं । दुग्धं वृद्धि समायाति रक्षते च निजक्षयात् ॥ १॥ अथ तिर्यचोऽपि यथोपकारिणो भवन्ति मनुष्या अपि यथानुपकारिणो भवन्ति तदाह-.
येन केनाप्युपकारेण तिर्यंचोपि प्रत्युपकारिणो व्यभिचारिणश्च न पुनः प्रायेण मनुष्याः ॥१०॥ टीका-एताभ्यां व्याखानं बृहत्कथायां ज्ञातव्यम् ।
तथा चोपाख्यानक-अटव्यों किलान्धकूपे पतितेषु कपिसर्पसिंहाक्षशालिकसौवर्णिकेषु कृतोपकारः कंकायननामा कश्चि त्पान्थो विशालायां पुरि तस्मादक्षशालिकायापदमवाप नाडीजंघश्च गौतमादिति ॥ ११ ॥
इति मित्रसमुद्देशः ।
१ ऐतिह्य २ कस्मिंश्चित्प्रदेशे ( अन्धकूपे ) केनचिद् दुष्टेन तृणादिभिः पिहितमुखे यदृच्छया देवचोदिताः कपिसपसिंहाक्षिशालिकाः पतयाम्बभूवुः । एवमन्धकूपे विपद्यमानास्ते कंकायननाम्ना केनचिद्दयालुना पान्थेन तस्मादन्धकूपाहिः निःसारिताः । तेषु च कपिसिंहसपस्त्रियस्तियंचस्तस्मै उपकत्र कंकायनाय स्वात्मसमर्पणं कृत्वा तेनानुज्ञाता यथेष्टं देशं जग्मुः । मानवोऽक्षशालिकस्तु कपटोक्तिशतैस्तं तोषयित्वा तस्य मित्रत्वमापनः । तेन सह नगरप्रामादिषु पर्यटन् तस्य धनमपजिहीर्षुविशालायां पुरि शून्ये देवालये शयानं तं रात्री जघानेति श्रूयते । तथैव नाडीजंघनामा कश्चनोपकापि गौतम्गन्मरणमवापेति बहून्याख्यानानि श्रूयन्ते। मुद्रित-पुस्तकस्थमिदं टिप्पणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org