SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४ राजरक्षा - समुद्देशः । B अथ राजरक्षासमुद्देशो व्याख्यायते । तत्रादावेव राजरक्षाकारण माह राज्ञि रक्षिते सर्व रक्षितं भवत्यतः स्वेभ्यः परेभ्यश्च नित्यं राजा रक्षितव्यः ॥ १ ॥ टीका - रक्षितव्यो रक्षणीयः । कोऽसौ ? राजा । केभ्यः ? स्वेभ्य आत्मीयम्यः : सकाशात् तथा परेभ्यः । कथं ? नित्यमेव ( तस्मिन् रक्षिते सर्वे रक्षितं भवति यतः ) । तथा च रैभ्य: रक्षिते भूमिनाथे तु आत्मीयेभ्यः सदैव हि । परेभ्यश्च यतस्तस्य रक्षा देशस्य जायते ॥ १ ॥ अथ राज्ञो रक्षा यथा भवति तथाह अतएवोक्तं नयविद्भिः - पितृपैतामहं महासम्बन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्मणां च जनं आसन्नं कुर्वीत ॥ २ ॥ अथ राज्ञो रक्षा यथा भवति तथाह Che टीका - अत एवोक्तमस्माद्भणितं । कः ? नयविद्भिः नीतिविद्भिः । किं तदुक्तमित्याह - एतद्गुणविशिष्टं जनं लोकं समासन्नं कुर्वीत कुर्याद्रक्षार्थं । किंविशिष्टं जनं ? महासम्बन्धानुबद्धं महान् योऽसौ परिणयन् लक्षणस्तेनानुबद्धं यंत्रितं । तथा शिक्षितं विचक्षणं । तथानुरक्तं कृतकर्मणां येन राजकर्माणि कृतानि । तथा पितृपैतामहमन्वयागतं समासन्नं कुर्यात् । तथा च गुरु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy