SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २२१ वंशजं च सुसम्बन्धं शिक्षितं राजसंयुतं । कृतकर्म जनं पार्वे रक्षार्थ धारयेन्नृपः ॥ १। अथ यादृशं जनं समीपगं न कुर्वीत तादृशमाह अन्यदेशीयामकृतार्थमानं स्वदेशीयं चापकृत्योपगृहीतमासन्नं न कुर्वीत ॥३॥ टीका--अन्यदेशीयमकृतार्थमानं स्वदेशीयं चापकृत्योपगृहीतं जनं समीपे न धारयेन्न स्थापयेत् । कं जनं कथंभूतं, ? अन्यदेशीयं । तथा अपकृत्योपगृहीतं अपृकृत्य दण्डयित्वोपगृहीतं स्वस्थाने स्थापितं यतस्तस्य वित्तक्षतिः स्यात् । तथा च शुक्रः नियोगिनं समीपस्थं दंडयित्वा न धारयेत् । दण्डको यो न वित्तस्य बाधा चित्तस्य जायते ॥१॥ अन्यदेशोद्भवं लोके समीपस्थं न धारयेत् । अपूजितं स्वदेशीयं वा विरुद्धय प्रपूजितं ॥२॥ अथ दण्डयित्वा यः स्थाप्यते तत्स्वरूपमाहचित्तविकृतेर्नास्त्यविषयः किन्न भवति मातापि राक्षसी ॥४॥ टीका-चित्ते विकृतिर्विकारो यस्य स तथा तम्य चित्तविकृतेः पुरुषस्य नास्ति कोऽसावविषयो गोचरं पापं कुर्वाणस्य । यतः किन भवति कासौ ? माता । किंविशिष्टा ? राक्षसी यदा माता शाकिनी धर्ममनुतिष्ठति तदा पुत्रमपि व्यापादयतीति । तथा च शुक्रः यस्य चित्ते विकारः स्यात् सर्व पापं करोति सः । जातं हन्ति सुखं माता शाकिनीमार्गमाश्रिता ॥१॥ अथ स्वामिरहिताः प्रकृतयो यथा भवन्ति तथाहअस्वामिकाः प्रकृतयः समृद्धा अपि निस्तरीतुं न शक्नुवन्ति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy