SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२२ नीतिवाक्यामृते टीका-न समर्था भवन्ति । काः प्रकृतयोऽमात्याद्याः। किं कर्तु निस्तरीतु निर्वाहं गन्तुं । किं विशिष्टाः प्रकृतयः ? अस्वामिका न विद्यते स्वामी यासामस्वामिकाः। पुनरपि कथंभूतास्ताः समृद्धा अपि सर्वकामान्विता अपि । तथा च वशिष्ठ:--- राजप्रकृतयो नैव स्वामिना रहिताः सदा । गन्तुं निर्वाहणं यद्वत् स्त्रियः कान्तविवर्जिताः ॥ १ ॥ अथ गतायुषि पुरुषे यद्भवति तदाह देहिनि गतायुषि सकलाङ्गे किं करोति धन्वन्तरिरपि वैद्यः ॥६॥ ____टीका-किं करोति अपि तु (न) करोति । कोऽसौ धन्वन्तरिरपि वैद्यः । यस्य किं विशिष्टस्य देहिनः सकलांगस्यापि सकला: ? कला द्विसप्ततिप्रमाणा यस्य शरीरेऽङ्गे तिष्ठति । तथा च व्यास: न मंत्रा न तपो दानं न वैद्यो न च भेषजं । शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥१॥ अथ येषां सकाशाद्राज्ञो रक्षणं कार्य तानाह राज्ञस्तावदासन्ना स्त्रिय आसन्नतरा दायादा आसन्नतमाश्च पुत्रास्ततो राज्ञः प्रथमं स्त्रीभ्यो रक्षणं ततो दायादेभ्यस्ततः पुत्रेभ्यः ॥७॥ टीका-~गतार्थमेतत् । अथ स्त्रीसुखकृते यद्भवति तदाहआवण्ठादाचक्रवर्तिनः सर्वोऽपि स्त्रीसुखाय क्लिश्यति ॥ ८॥ टीका–वण्ठ शब्देन निकृष्टः पुमातुच्यते । चक्रवर्ती समस्तद्वीपाधिपतिः । आङ् मर्यादायां । वण्ठ चक्रवर्तिनां मध्ये यो जनः स सर्वोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy