SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २२३ स्त्रीसुखकृते क्लिश्यति स्त्रीसुखार्थे क्लेशं करोति येन स्त्रीसुखाढ्यो भवति । तथा च गर्ग:--- कृषि सेवां विदेशं च युद्धं वाणिज्यमेव च। सर्व स्त्रीणां सुखार्थाय स सर्वो कुरुते जनः ॥ १॥ अथ स्त्रीसंगरहितस्य पुरुषस्य यद्भवति तदाहनिवृत्तस्त्रीसंगस्य धनपरिग्रहो मृतमण्डनमिव ॥ ९ ॥ टीका-स्त्रीसंगरहितस्य यः सम्पल्क्षणो विभवः । स किंविशिष्टः ? मृतमण्डनमिव यथा मृतमण्डनं वृथा न किंचित्सुखमुत्पादयति तथा प्रभूतोऽप्यर्थो व्यर्थो वनितासंगरहितस्य । तथा च वलभदेव: प्रभूतमपि चेद्वित्तं पुरुषस्य स्त्रियं विना। मृतस्य मण्डनं यद्वत् तत्तस्य व्यर्थमेव हि ।।१॥ अथ स्त्रीणां स्वरूपमाहसर्वाः स्त्रियः क्षीरोदवेला इव विषामृतस्थानम् ॥ १०॥ टीका-या एता: स्त्रियः ताः सर्वा विषामृतस्थानं । किंविशिष्टा इव ? क्षीरोदवेला इव दुग्धसमुद्रलहर्य इव । तथा च वलभदेव: नामृतं न विषं किंचि देकां मुक्त्या नितम्बिनीम् । विरक्ता मारयेद्यस्मात्सुखायत्यनुरागिणी ॥१॥ भूयोऽपि स्त्रीस्वरूपमाह-- मकरदंष्ट्रा इव स्त्रियः स्वभावादेव वक्रशीलाः ॥११॥ टीका--एताः स्त्रियो यास्ताः सर्वा वक्रशीला: वक्र शीलं यासांता वक्रशीला: । कस्मात्स्वभावादेव नियमेन । का इव वक्रशीला: ? मकरदंष्टा इव । तथा च बल्लभदेव:---- स्त्रियोऽतिवक्रता युक्ता यथा दंष्ट्रा झपोद्भवाः । ऋजुत्वं नाधिगच्छन्ति तीक्ष्णत्वादतिभीषणाः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy