SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२४ नीतिवाक्यामृते अथ भूयोऽपि स्त्रीस्वरूपमाह--- स्त्रीणां वशोपायो देवानामपि दुर्लभः ॥ १२ ॥ टीका---स्त्रीणां विरुद्धानां योऽसौ वशोपायो वशं कर्तुमुपायः सामदामभेदोपप्रदानदण्डलक्षणः स देवानमपि दुर्लभः । तमुपायं देवा अपि न जानन्तीत्यर्थः । तथा च वल्लभदेव:--- चतुरः सृजता पूर्वमुपायांस्तेन वेधसा । न सृष्टः पंचमः कोऽपि गृह्यते येन योषितः ॥१॥ अथ सुकलत्रस्य स्वरूपमाह कलत्रं रूपवत्सुभगमनवद्याचारमपत्यवदिति महतः पुण्यस्य फलम् ॥ १३ ॥ टीका-एतदुक्तं भवति, तस्येदृशं वक्ष्यमाणं स्यात् येनान्यस्मिन् देहान्तरे महत्पुण्यं कृतं तस्य फलं । एतत्किविशिष्टं कलत्रं ? सुरूपं रूपाढ्यं तावत् । तथा मुभगत्वं । तथानवद्याचार, अनवद्योऽकुत्सित आचारो व्यवहारो यस्य । तथापत्यवत्पुत्रयुतं । तथा च चारायण: सुरूपं सुभगं यद्वा सुचरित्रं सुतान्वितं । यस्येदृशं कलत्रं स्यात्पूर्वपुण्यफलं हि तत् ॥ १ ॥ अथ भूयोऽपि त्रीस्वरूपमाहकामदेवोत्संगस्थापि स्त्री पुरुषान्तरमभिलपति च ॥ १४ ॥ टीका--अभिलषति वाञ्छति कासौ ? स्त्री। किमभिलषति पुरुषान्तरं पुरुषविशेषं । किंशिष्टा स्त्री ? कामदेवोत्संगस्थापि । एतदुक्तं भवति, कामादपरो रूपवान् कश्चिन्न भवति तथापि तं परित्यज्य स्त्री अन्यमभिल. पति चापल्यात् । तथा च नारद:-- कामदेवोपमं त्यक्त्वा मुखप्रेक्षं निजं पति। चापल्याद्वाञ्छते नारी विरूपांगमपीतरम् ॥१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy