________________
राजरक्षासमुद्देशः।
२२५
अथ भूयोऽपि स्त्रीणां स्वरूपमाहन मोहो लज्जा भयं स्त्रीणां रक्षणं किन्तु परपुरुषादर्शनं संभोगः सर्वसाधारणता च ॥ १५ ॥ ___टीका-स्त्रीणां तावत् कुटुम्बमोहो रक्षणं न करोति, भयं न करोति, लज्जा न करोति । तर्हि कथं रक्षणं भवतीत्याहा तासां परपुरुषादर्शनं तावत् अन्यपुरुषदर्शनं यदि न स्यात् । तथा संभोग: कामसेवनं । तथा सर्वसाधारणत्वं च पत्युः सकाशात्सर्व वाञ्छितं लभते । सर्वसाधारणत्वं, ईर्ष्याधर्म यदि भर्ता न करोति । एतत्त्रयं स्त्रीणां रक्षणं नान्यत् तथा. च जैमिनिः--
अन्यस्यादर्शनं कोपात् प्रसादः कामसंभवः। सर्वासामेव नारीणामेतद्रक्षत्रयं मतम् ॥१॥ अथ यथा न विरुध्यन्ते भर्तुः स्त्रियः तथाहदानदर्शनाभ्यां समवृत्तौ हि पुंसि नापराध्य ते स्त्रियः॥१६॥ टीका-नापराध्यन्ते न विरोधं कुर्वन्ति । काः खियः । कस्मिन् ? पुंसि भतीर । किंविशिटे ? समवृत्तौ समप्रसादे । काभ्यां ? दानदर्शनाभ्यां । एतदुक्तं भवति यस्य पुरुषस्य बव्यः स्त्रियो भवन्ति स यदा तुल्यवृत्तो तुल्यचेष्टितो भवति काभ्यां दानमानाभ्यां विशेष न करोति तदा ताः सानुरागा भवन्ति । तथा च नारदः
दानदर्शनसंभोगं समं स्त्रीषु करोति यः । प्रसादेन विशेषं च न विरुध्यन्ति तस्स ताः॥१॥ अथ परिगृहीतासु स्त्रीषु पुरुषेण यत्कर्तव्यं तदाहपरिगृहीतासु स्त्रीषु त्रियाप्रियत्वं न मन्येत ॥१७॥ नीति०-१५
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org