SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२६ नीतिवाक्यामृते टीका-न मन्येत। किं तत् ? प्रियाप्रियत्वं । कासु ? स्त्रीषु । किंविशिष्टासु स्त्रीषु ? परिगृहीतासु विवाहितासु । याः स्त्रियो भवन्ति विवाहितास्तासु समत्वेन वर्तितव्यं प्रियाप्रियत्वे विषये । तथा च भागुरिः समत्वेनैव द्रष्टव्या याः स्त्रियोऽत्र विवाहिताः। विशेषो नैव कर्तव्यो नरेण श्रियमिच्छता ॥१॥ अथ दुर्लभास्वपि स्त्रीषु यथा वर्तितव्यं तदाहकारणवशानिंबोऽप्यनुभूयते एव ॥ १८ ॥ टीका-यस्मादेतदुक्तमाचार्येण । स्त्रीषु प्रियाप्रियत्वं न कुर्यात् । यतश्चानुभूयते सेव्यते । कोऽसौ ? निम्बोपि । कस्मात् ? कारणवशात् प्रयोजनवशतः । यथा निम्बोऽपि भक्ष्यत औषधार्थ तथा दुर्भगापि स्त्री विरूपापि सेवनीया नो चेदपमानिता सती सा वधादिकं चिन्तयति भर्तुः । तथा च भारद्वाजः दुर्भगापि विरूपापि सेव्या कान्तेन कामिनी । यथौषधकृते निंबः कटुकोऽपि प्रदीयते ॥ १॥ अथ यस्मिन् काले स्त्री अवश्यमेव सेव्यते तथाहचतुर्थदिवसस्नाता स्त्री तीर्थ तीर्थोपराधो महानधर्मानुबन्धः ॥१९॥ टीका-ऋतुकाले संजाते त्रीणि दिनानि यावदपवित्रा स्त्री भवति चतुर्थे दिवसे पुनस्तीर्थ भवति पवित्रा भवति । किंविशिष्टा सती ? स्नाता सती । एतस्मात् कारणात्तीर्थोपराधे कृते परित्यागे कृते महानधर्मानुबन्धो धर्मक्षतिर्भवति । तथा यश्चतुर्थदिवसे स्त्रियं न भजते तस्य महती क्षतिर्भवति । तथा च वादरायणः-- ऋतुस्नातां न यो नारी भजते पापकृत्तमः। न तस्य हव्यं गृहंति देवाः कव्यं च पूर्वजाः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy