SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः। २२७ अथ ऋतुस्नातां स्त्रियं न भजति तस्य यद्भवति तदाहऋतावपि स्त्रियमुपेक्षमाणः पितॄणामृणभाजनं ॥ २० ॥ टीका-ऋणभाजनं भवति, केषां ? पितृणां पूर्वजानां । कोऽसौ ऋणभाजनं भवति ? उपेक्षमाणोऽगच्छन् पुरुषः । कां ? ऋतुस्नातां स्त्रियं । तथा च गर्गः-- ऋतुं यच्छति नो योऽत्र भार्यायाः स्नानजे दिने । तस्य देवा न गृह्णति हन्यं कव्यं च पूर्वजाः ॥१॥ अथ स्त्रीणामृतुप्रदातुः पुरुषस्य यद्भवति तदाहअवरुद्धाः स्त्रियः स्वयं नश्यन्ति स्वामिनं वा नाशयन्तिा२१॥ टीका-याः स्त्रियोऽवरुद्धा उद्वाहिता भवन्ति ऋतुमात्रेणापि न सम्भाव्यन्ते ता द्वाभ्यामेकतमं कुर्वन्ति । किं वा स्वयं नश्यति अथवा पति नाशयन्ति । तस्मात्पुरुषेणापि वश्यं स्त्रीणां ऋतुर्देयः। तथा च गर्ग: ऋतुकाले च सम्प्राप्ते न भजेद्यस्तु कामिनीं । तहःखात्सा प्रणश्येत स्वयं वा नाशयेत्पतिम् ॥ १॥ अथर्तुकाले स्त्रियो वर्जिता यत्कुर्वन्ति तदाहन स्त्रीणामकर्तव्य मर्यादास्ति वरमविवाहो नोढोपेक्षणं ॥२२॥ टीका-~-नास्ति न विद्यते । कासौ ? मर्यादा । कासां? स्त्रीणां । कस्मिन् ? अकर्तव्ये । तस्माद्वरं वध्वानं अविवाहो नोढानां विवाहितानामुपेक्षणं ऋतोरप्रदानं । तथा च भार्गवः नाकृत्यं विद्यते स्त्रीणामपमाने कृते सति । अविवाहो वरस्तस्मान्न तूढानां विवजर्नम् ॥१॥ अथ स्त्रीणां यानि विरक्तिकारणानि तान्याहअकृतरक्षस्य किं कलत्रेणाकृषतः किं क्षेत्रेण ॥ २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy