SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२८ नीतिवाक्यामृतेटीका-गतार्थमेतत् । सपत्नीविधानं पत्युरसमंजसं च विमाननमपत्याभावश्च चिरविरहश्च स्त्रीणां विरक्तिकारणानि ॥ २४ ॥ टीका-एतानि पंच स्त्रीणां विरक्तिकारणानि । तस्मान्न कार्याणि । एकं सपत्नीविधानं तावत् यदन्या भार्या न विशेषः कार्यः । पत्युरसमंजसं पत्युर्मनोमलिनता। विमाननमपमाननं (?) कार्य। अपत्या. भावो वन्ध्यता । तथा चिरविरहश्च । चिरकाले देशान्तरगमनं पत्युः । तथा च जैमिनिः सपत्नी वा समानत्वमपमानमपत्यता । देशान्तरगतिः पत्युः स्त्रीणां रागं हरन्त्यमी ॥१॥ अथ स्त्रीणां भूयोऽपि खरूपमाह न स्त्रीणां सहजो गुणो दोषो वास्ति किंतु नद्यः समुद्रमिव यादृशं गतिमाप्नुवन्ति तादृश्यो भवन्ति स्त्रियः ॥ २५ ॥ ____टीका-~-आसां स्त्रीणां सहजो गुणो दोषो वा नास्ति भर्तुर्गुणेन गुणा भवन्ति, दोषेण दोषाः । केन दृष्टान्तेन ? यादृशं पतिमाप्नुवन्ति तादृश्यो भवन्ति । का इव नद्य इव यथा नद्यः समुद्रं पतिं प्राप्य ताहग्रूपा भवन्ति । तथा च शुक्रः गुणो वा यदि वा दोषो न स्त्रीणां सहजो भवेत् । भर्तुः सदृशतां यांति समुद्रस्यापगा यथा ॥१॥ अथ भूयोऽपि स्त्रीस्वरूपमाहस्त्रीणां दौत्यं स्त्रिय एव कुर्युस्तैरश्चोऽपि पुंयोगः स्त्रियं दुषयति किं पुनर्मानुष्यः ॥ २६ ॥ टीका--स्त्रीणां विषये यद्दौत्यं तत्स्त्रीसकाशात् कारापनीयं न पुनः पुरुषाणां सकाशात् । यतः पुंयोगस्तैरश्चोऽपि तिर्यवसम्भवोऽपि गर्दभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy