SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ राजरक्षासमुद्देशः । २२९ श्वसमुत्थोऽपि दृष्टोऽपि दूषयति सदोषं करोति स्त्रियं किं पुनर्मानुष्यसंभवः संयोगः । तथा च गुरु: स्त्रीणां दौत्यं नरेन्द्रेण प्रेष्या नार्यो नरो न वा । तिर्यंचोऽपि च पुंयोगो दृष्टो दूषयति स्त्रियं ॥१॥ अनु चपतिव्रतापि या नारी दृष्टाश्वखरसन्निभं । सुतरां कुरुते वाञ्छां त मैथुनसमुद्भवम् ॥१॥ अथ स्त्रियो यदर्थ रक्ष्यन्ते तदाहवंशविशुद्धयर्थमनर्थपरिहारार्थ स्त्रियो रक्ष्यन्ते न भोगार्थ ॥ २७॥ ___टीका-एता: स्त्रियः कस्माद्रक्ष्यन्ते ? वंशविशुद्धयर्थं येन वंशस्यान्वयस्य विशुद्धिर्भवति । अनर्थपरिहारार्थं च रक्ष्यन्ते । न भोगार्थ गतार्थ च । तथा च गुरुः वंशस्य च विशुद्धयर्थ तथानर्थक्षयाय च । रक्षितव्याः स्त्रियो विन भोगाय च केवलम् ॥१॥ अथ पण्याङ्गनानां स्वरूपमाहभोजनवत्सर्वसमानाः पण्याङ्गनाः कस्तासु हर्षामर्षयोरवसरः ॥ २८ ॥ टीका-पण्याङ्गना वेश्याः समानाः सर्वसाधारणाः । कथं ? भोजनवत् यथा भोजनकाले कमपि पुरुषं दृष्ट्वा प्रोच्यते भोजनं क्रियतां शोभार्थ तथा वेश्यापि सेवनीया शोभार्थ कौतुकार्थ च । कस्तासामर्थे हर्षामोंवा प्राप्तायामानन्दः क्रियते न, नाप्राप्तायां कोपः कार्य इति । तथाच गुरु: सर्वसाधारणा वेश्या यथा भोजनकर्मणि । न प्राप्त्या कारयेत्तुष्टिं तासां कोपो न बाह्यतः॥१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org ww
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy