________________
२३०
नीतिवाक्यामृते
Raiser
अथ वेश्यासंग्रहणस्वरूपमाह
यथाकामं कामिनीनां संग्रहः परमनीयावान् कल्याणावहः प्रक्रमोऽद्वौरिके द्वारे को नाम न प्रविशति ॥ २९ ॥
टीका-यथाकामं यथासौख्यं कामिनीनां वेश्यानां संग्रहः कार्यः । परमनीया॑वान् केवलं ईर्ष्यारहितैः संग्रहः कल्याणाय कल्याणप्रदो भवति ईर्ष्यारहितः स तस्याः प्रक्रमोऽनुष्टानं यतः। तासां गृहे सर्वोऽपिजनः प्रविशति न कश्चिन्निवार्यते । येन कारणेनादौवारिके द्वारे को न प्रविशति यत्र द्वारे द्वारपालो न भवति । तथा च जैमिनिः
वेश्याः कामं प्रसेव्याश्च परमेाविवर्जितैः । सर्वगम्यं भवेदद्वारं यतस्तासामहर्निशम् ॥ १॥ अथ पुरुषण स्त्रीणां विषये यत्कर्तव्यं तदाहमातृव्यंजनविशुद्धा राजवसत्युपरिस्थायिन्यः स्त्रियः संभक्तव्याः ॥ ३० ॥ ___टीका-याः स्त्रियो मातृव्यञ्जनविशुद्धा भवन्ति मातृचिन्हं यत्तेन या विशुद्धा भवन्ति । राजवसत्युपरिस्थायिन्यो भवन्ति वेश्याः स्त्रियः ता संभक्तव्याः सेवाया इत्यर्थः । तथा च भागुरि :
मातृचिह्नविशुद्धा या राजहर्ये वसन्ति च । ता वेश्याः सेवनीयाश्च नान्या सेव्या विचक्षणैः॥ १॥ अथ राज्ञः स्त्रीगृहप्रवेशनिरतस्य यद्भवति तदाह - दर्दरस्य सर्पगृहप्रवेश इव स्त्रीगृहप्रवेशो राज्ञः ॥ ३१ ॥
टीका-राज्ञः योऽसौ स्त्रीगृहप्रवेशः । स किंविशिष्टः ? सर्पगृहप्रवेश इव । कस्य ? दर्दुरस्य। यथा मण्डुकः सर्पगृहे प्रविष्टो न जीवति तथा राज्ञोऽपि स्त्रीगृहप्रवेशः स्यात् । तथा च गौतमः--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org