________________
राजरक्षासमुद्देशः ।
२३१
प्रविष्टो हि यथा भेको बिलं सर्पस्य मृत्युभाक। तथा संजायते राजा प्रविष्टो वेश्मनि स्त्रियः ॥१॥ अथ राज्ञा स्त्रीणां विषये यत्कर्तव्यं तदाहन हि स्त्रीगृहादायातं किंचित्स्वयमनुभवनीयम् ॥ ३२ ॥
टीका-नानुभवनीयं न भक्षणीयमित्यर्थः । किंचिदपि स्वल्पमपि वस्तु, किंविशिष्टं वस्तु ? आयातं प्राप्तं । कस्मात् ? स्त्रीगृहात् । कथं न भक्षणीयं ? स्वयमात्मना-अर्थाद्राज्ञा । तथा च वादरायण:---
स्त्रीणां गृहात् समायातं भक्षणीयं न भूभुजा । किंचित्स्वल्पमपि प्राणान् रक्षितुं योऽभिवाञ्छति ॥१॥ नापि स्वयमनुभवनीयेषु स्त्रियो नियोक्तव्याः ॥ ३३॥
टीका-स्वयमनुभवनीयेषु स्वयं सेव्येषु भोजानाद्येषु स्त्रियो न नियोक्तव्या न प्रेरणीया यतो विष देदोषैर्दूषयन्ति । तथा च भगुः---
भोजनादिषु सर्वेषु नात्मीयेषु नियोजयेत् । स्त्रियो भूमिपतिः क्वापि मारयन्ति यतश्च ताः ॥१॥ अथ स्त्रियो यत्कुर्वन्ति तदाह --- , संवननं स्वातंत्र्यं चाभिलपन्त्यःस्त्रियः किं नाम न कुर्वन्ति३४ टीका --एताः स्त्रियः किमनिटं न कुर्वन्ति, अपि तु सर्व कुर्वन्ति। संवननं कार्मणमभिचारकं तावदभिलपन्ति तथा स्वातंत्र्यं स्वेच्छया वर्तनं वाञ्छन्ति । तथा च भारद्वाजः--
कार्मगं स्वेच्छाचारं सदा वाञ्छन्ति योषितः ।
तस्मात्तासु न विश्वासः प्रकर्तव्यः कथंचन ॥१॥ अथ त्रियो विरक्ताः स्वातंत्र्यमिच्छन्त्यो यत्कुर्वन्ति दृष्टान्तेन तदाह
श्रूयते हि किल-आत्मनः स्वच्छन्दवृत्तिमिच्छन्ती विषविदूषितगण्डूषेग मणिकुण्डला महादेवी यवनेषु निजतनुजराज्यार्थ जघान राजानमङ्गराजम् ॥ ३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org